पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०७ क्ष्लो ०१५]
२४९
श्रीमद्भगवद्गीता।


दनिबन्धनात्मभेदभ्रान्त्यनुवादार्थः। प्रपश्यन्तीति वक्तव्ये प्रपद्यन्त इत्युक्तेर्ये मदेकशरणाः सन्तो मामेव भगवन्तं वासुदेवमीदृशमनन्तसौन्दर्यसारसर्वस्वमखिलकलाकलापनिलयमभिनव[१]जलदशोभासर्वस्वहरणचरणं परमानन्दघनमयमूर्तिमतिवैरिञ्चप्रपञ्चमनवरतमनुचिन्तयन्तो दिवसानतिवाहयन्ति ते मत्प्रेममहानन्दसमुद्रमग्नमनस्तया समस्तमायागुणविकारैर्नाभिभूयन्ते । किं तु मद्विलासविनोदकुशला एते मदुन्मूलनसमर्था इति शङ्कमानेव माया तेभ्योऽपसरति वारविलासिनीव क्रोधनेभ्यस्तपोधनेभ्यस्तस्मान्मायातरणार्थी मामीदृशमेव संततमनुचिन्तयेदित्यप्यभिप्रेतं भगवतः। श्रुतयः स्मृतयश्चात्रार्थे[२] प्रमाणीकर्तव्याः ॥१४॥

 श्री० टी०-के तर्हि त्वां जानन्तीत्यत आह-दैवी हीति । दैव्यलौकिक्य त्यद्भुतेत्यर्थः । गुणमयी सत्त्वादिगुणविकारात्मिका मम परमेश्वरस्य शक्तिर्माया दुरत्यया दुस्तरा हि प्रसिद्धमेतत् । तथाऽपि ये मामेवाव्यभिचारिण्या भक्त्या प्रपद्यन्ते भजन्ति ते मायामेतां दुस्तरामपि तरन्ति । ततो मां जानन्तीति भावः ॥ १४ ॥

 म०टी०-यद्येवं तर्हि किमिति निखिलानर्थमूलमायोन्मूलनाय भगवन्तं भवन्तमेव सर्वे न प्रतिपद्यन्ते चिरसंचितदुरितप्रतिबन्धादित्याह भगवान्-

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ॥
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५॥

 दुष्कृतिनो दुष्कृतेन पापेन सह नित्ययोगिनः । अत एव नरेषु मध्येऽधमा इह साधुभिर्गर्हणीयाः परत्र चानर्थसहस्रभाजः । कुतो दुष्कृतमनर्थहेतुमेव सदा कुर्वन्ति यतो मूढा इदमर्थसाधनमिदमनर्थसाधनमितिविवेकशून्याः । सति प्रमाणे कुतो न विविश्वन्ति यतो माययाऽपहृतज्ञानाः शरीरेन्द्रियसंघाततादात्म्यभ्रान्तिरूपेण परिणतया मायया पूर्वोक्तयाऽपहृतं प्रतिबद्धं ज्ञानं विवेकसामर्थ्यं येषां ते तथा । अत एव ते दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव चेत्यादिनाऽग्रे वक्ष्यमाणमासुरं भावं हिंसानृतादिस्वभावमाश्रिता मत्प्रतिपत्त्ययोग्याः सन्तो न मां सर्वेश्वरं प्रपद्यन्ते न भजन्ते । अहो दौर्भाग्य तेषामित्यभिप्रायः ॥ १५ ॥

 श्री०टी०-किमिति तर्हि सर्वे त्वामेव न भजन्ति तत्राऽऽह-न मामिति । नरेषु येऽधमास्ते मां न प्रपद्यन्ते न भजन्ति । अधमत्वे हेतुः-मूढा विवेकशून्याः । तत्कृतः-दुष्कृतिनः पापशीलाः । अतो माययाऽपहृतं निरस्तं शास्त्राचार्योपदेशाभ्यां जातमपि ज्ञानं येषां ते । अत एव दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव चेत्यादिना वक्ष्यमाणमासुरं भावं स्वभावं प्राप्ताः सन्तो न भजन्ति ॥ १५ ॥


  1. क. धपङ्कजशोभरधिकचरणकमलयुगुलप्रभमनवरतवेणुवादननिरतवृन्दावनक्रीडासक्तमानसहेलोद्धृतगोवर्धनाख्यमहीधरं गोपालं निषूदितशिशुपालकंसादिदुष्टसंघमभिनवज ।
  2. झ. र्थे शतशः प्र।