पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०७क्ष्लो०७-८]
२४३
श्रीमद्भगवद्गीता।

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ॥
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥

 निखिलदृश्याकारपरिणतमायाधिष्ठानात्सर्वभासकान्मत्तः सद्रूपेण स्फुरणरूपेण च सर्वानुस्यूतात्स्वप्रकाशपरमानन्दचैतन्यघनात्परमार्थ[१]सत्यात्स्वप्नसदृश इव स्वाप्निकं मायाविन इव मायिकं शुक्तिशकलावच्छिन्नचैतन्यादिवत्तदज्ञानकल्पितं रजतं परतरं परमार्थसत्यमन्यत्किंचिदपि नास्ति हे धनंजय । मयि कल्पितं परमार्थतो न मत्तो भिद्यत इत्यर्थः “ तदनन्यत्वमारम्भणशब्दादिभ्यः" इति न्यायात् । व्यवहारदृष्टया तु मयि सद्रूपे स्फुरणरूपे च सर्वमिदं जडजातं प्रोतं ग्रथितं मत्सत्तया सदिव मत्स्फुरणेन च स्फुरदिव व्यवहाराय मायामयाय कल्पते । सर्वस्य चैतन्यग्रथितत्वमात्रे दृष्टान्तः- सूत्रे मणिगणा इवेति । अथवा सूत्रे तैजसात्मनि हिरण्यगर्भे स्वप्नदृशि स्व[२]प्नप्रोता मणिगणा इवेति सर्वाशे दृष्टान्तो व्याख्येयः । अन्ये तु" परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः" इतिसूत्रोक्तस्य पूर्वपक्षस्योत्तरत्वेन श्लोकमिमं व्याचक्षते । मत्तः सर्वज्ञात्सर्वशक्तेः सर्वकारणात्परतरं प्रशस्यतरं सर्वस्य जगतः सृष्टिसंहारयोः स्वतन्त्रं कारणमन्यन्नास्ति हे धनंजय । यस्मादेवं तस्मान्मयि सर्वकारणे सर्वमिदं कार्यजातं प्रोतं ग्रथितं नान्यत्र । सूत्रे मणिगणा इवेति दृष्टान्तस्तु ग्रथितत्वमात्रे न तु कारणत्वे । कनके कुण्डलादिवदिति तु योग्यो दृष्टान्तः ॥ ७ ॥

 श्री०. टी०-यस्मादेवं तस्मात्-~-मत्त इति । मत्तः सकाशात्परतरं श्रेष्ठं जगतः सृष्टिसंहारयोः स्वतन्त्रं कारणं किंचिदपि नास्ति । स्थितिहेतुरप्यहमेवेत्याह- मयीति । मयि सर्वमिदं जगत्प्रोतं ग्रथितमाश्रितमित्यर्थः । दृष्टान्तः स्पष्टः ॥ ७ ॥

 म० टी०-अवादीनां रसादिषु प्रोतत्वप्रतीतेः कथं त्वयि सर्वमिदं प्रोतमिति च न शङ्कयं रसादिरूपेण ममैव स्थितत्वादित्याह पञ्चभिः-

रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ॥
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८॥

 रसः पुण्यो मधुरस्तन्मात्ररूपः सर्वासामपां सारः कारणभूतो योऽप्सु सर्वास्वनुगतः सोऽहं हे कौन्तेय । तद्रूपे मयि सर्वा आपः प्रोता इत्यर्थः । एवं सर्वेषु पय व्याख्यातव्यम् । इयं विभूतिराध्यानायोपदिश्यत इति नातीवाभिनिवेष्टव्यम् । तथा प्रभा प्रकाशः शशिसूर्ययोरहमस्मि । प्रकाशसामान्यरूपे मयि शशिसूर्यो प्रोतावित्यर्थः । तथा प्रणव ओंकारः सर्ववेदेष्वनुस्यूतोऽहं " तद्यथा शङ्कुना सर्वाणि पर्णानि संतृष्णान्येवमोंकारेण सर्वा वाक् " इति श्रुतेः । संतृण्णानि ग्रथितानि । सर्वा वाक्सर्वो वेद


  1. क. सन्मात्रात्स्व ।
  2. ख. ग. घ. ङ, च. झ. ज. मप्राप्ता म ।