पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
[अ०७क्ष्लो०६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


भूतां विशुद्धां परां प्रकृष्टां प्रकृतिं विद्धि हे महाबाहो, यया क्षेत्रज्ञलक्षणया जीवभूतयाऽन्तरनुप्रविष्टया प्रकृत्येदं जगदचेतनजातं धार्यते स्वतो विशीर्य उत्तभ्यते " अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" इति श्रुतेः । न हि जीवरहितं धारयितुं शक्यमित्यभिप्रायः ॥५॥

 श्री०टी०-अपरामिमां प्रकृतिमुपसंहरन्परां प्रकृतिमाह-अपरेति । अष्टधोक्ता या प्रकृतिरियमपरा निकृष्टा जडत्वात्परार्थत्वाच्च । इतः सकाशात्परां प्रकृष्टामन्यां जीवभू[१]तां जीवस्वरूपां मे प्रकृतिं विद्धि जानीहि । परत्वे हेतुः- यया चेतनया क्षेत्रज्ञरूपया स्वकर्मद्वारेणेदं जगद्धार्यते ॥५॥

 म०टी०-उक्तप्रकृतिद्वये कार्यलिङ्गकमनुमानं प्रमाणयन्वस्य तद्वारा जगत्सृष्टयादिकारणत्वं दर्शयति-

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ॥
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६॥

 एते अपरत्वेन परत्वेन च प्रागुक्ते क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिर्येषां तान्येतद्योनीनि भूतानि भवनधर्मकाणि सर्वाणि चेतनाचेतनात्मकानि जनिमन्ति निखिलानीत्येवमुपधारय जानीहि । कार्याणां चिदचिद्वन्थिरूपत्वात्तत्कारणमपि चिदचिरन्थिरूपमनुमिन्वित्यर्थः । एवं क्षेत्रक्षेत्रज्ञलक्षणे ममोपाधिभूते यतः प्रकृती भवतस्ततस्तद्वाराऽहं सर्वज्ञः सर्वेश्वरोऽनन्तशक्तिमायोपाधिः कृत्स्नस्य चराचरात्मकस्य जगतः सर्वस्य कार्यवर्गस्य प्रभव उत्पत्तिकारणं प्रलयस्तथा विनाशकारणम् । स्वाप्निकस्येव प्रपञ्चस्य मायिकस्य मायाश्रयत्वविषयत्वाभ्यां मायाव्यहमेवोपादानं द्रष्टा चेत्यर्थः ॥ ६ ॥

 श्री०टी०-अनयोः प्रकृतित्वं दर्शयन्स्वस्य तद्वारा सृष्टयादिकारणत्वमाह- एतदिति । एते क्षेत्रक्षेत्रज्ञरूपे प्रकृती योनी कारणभूते येषां तान्येतद्योनीनि स्थावरजङ्गमात्मकानि सर्वाणि भूतानीत्युपधारय वुध्यस्व । तत्र जडा प्रकृतिदेहरूपेण परिणमते । चेतना तु मदंशभूता भोक्तृत्वेन देहेषु प्रविश्य स्वकर्मणा तानि धारयति । ते च मदीये प्रकृती मत्तः संभूते । अतोऽहमेव कृत्स्नस्य सप्रकृतिकस्य जगतः प्रभवः प्रकर्षेण भवत्यस्मादिति प्रभवः [२]परं कारणमहमित्यर्थः । तथा प्रलीयतेऽनेनेति प्रलयः संहर्ताऽप्यहमे[३]वेत्यर्थः ॥ ६ ॥

 म०टी०-यस्मादहमेव मायया सर्वस्य जगतो जन्मस्थितिभङ्गहेतुस्तस्मात्परमार्थतः-


  1. ख, ग, घ, ङ. च. छ. ज, झ. ज. "तां मे ।
  2. ख. छ. झ. परमं ।
  3. क. अ. वेति भावः ॥६॥