पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
[अ०७०क्ष्लो ३-४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-

 षतः साधनफलादिसहितत्वेन निरवशेष कथयिष्यामि । श्रौतीमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञामनुसरन्नाह-यज्ज्ञानं नित्यचैतन्यरूपं ज्ञात्वा वेदान्तजन्यमनोवृत्तिविषयीकृत्येह व्यवहारभूमौ भूयः पुनरपि अन्यत्किंचिदपि ज्ञातव्यं नावशिष्यते । सर्वाधिष्ठानसन्मात्रज्ञानेन कल्पितानां सर्वेषां बाधे सन्मात्रपरिशेषात्तन्मात्रज्ञानेनैव त्वं कृतार्थों भविष्यसीत्यभिप्रायः ॥ २ ॥

 श्री०टी०-वक्ष्यमाणं[१] स्तौति-ज्ञानमिति । ज्ञानं शास्त्रीयं विज्ञानमनुभवस्तत्सहितमिदं मद्विषयमशेषतः साकल्येन वक्ष्यामि । यज्ज्ञात्वे[२]ह श्रेयोमार्गे वर्तमानस्य पुनरन्यज्ज्ञातव्यमवशिष्टं न भवति । तेनैव कृतार्थो भवतीत्यर्थः ॥ २॥

 म०टी०-अतिदुर्लभं चैतन्मदनुग्रहमन्तरेण महाफलं ज्ञानम् । यतः-

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ॥
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥३॥

 मनुष्याणां शास्त्रीयज्ञानकर्मयोग्यानां(णां) सहस्त्रेषु मध्ये कश्चिदेकोऽनेकजन्मकृतसुकृतसमासादितनित्यानित्यवस्तुविवेकः सन्यतति यतते सिद्धये सत्त्वशुद्धिद्वारा ज्ञानोत्पत्तये । यततां यतमानानां ज्ञानाय सिद्धानां प्रागर्जितसुकृतानां साधकानामपि मध्ये कश्चिदेकः श्रवणमनननिदिध्यासनपरिपाकान्ते मामीश्वरं वेत्ति साक्षात्करोति तत्त्वतः प्रत्यगभेदेन तत्त्वमसीत्यादिगुरूपदिष्टमहावाक्येभ्यः । अनेकेषु मनुष्येष्वात्मज्ञानसाधनानुष्ठायी परमदुर्लभः, साधनानुष्ठायिष्वपि मध्ये फलभागी परमदुर्लभ इति किं वक्तव्यमस्य ज्ञानस्य माहात्म्यमित्यभिप्रायः ॥ ३ ॥

 श्री०टी०-मद्भक्तिं विना तु मज्ज्ञानं दुर्लभमित्याह-मनुष्याणामिति । असंख्यातानां जीवानां मध्ये मनुष्यव्यतिरिक्तानां श्रेयसि प्रवृत्तिरेव नास्ति । मनुष्या[३]णां [४]तु सहस्रेषु मध्ये कश्चिदेव प्रकृष्टपुण्यवशासिद्धय आत्मज्ञानाय [५]यतते । प्रयत्नं कुर्वतामपि सहस्त्रेषु कश्चिदेव प्रकृष्टपुण्यवशादात्मानं वेत्ति । तादृशानां चाऽऽत्मज्ञानसि- द्धानां सहस्रेषु कश्चिदेव मां परमात्मानं मत्प्रसादेन तत्त्वतो वेत्ति । तदेवमतिदुर्लभमपि मज्ज्ञानं तुभ्यमहं वक्ष्यामीत्यर्थः ॥ ३ ॥

 म०टी०-एवं प्ररोचनेन श्रोतारमभिमुखीकृत्याऽऽत्मनः सर्वात्मकत्वेन परिपूर्णत्वमवतारयन्नादावपरां प्रकृतिमुपन्यस्यति-

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४॥


  1. ख. णं ज्ञानं स्तौ ।
  2. च. ह योगमा ।
  3. ङ. च. णां स।
  4. ख. ग. घ. छ. ज. अ. भ. च ।
  5. ज. झ, यतति ।