पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०७क्ष्लो०१-२]
२३९
श्रीमद्भगवद्गीता।


"योगिनामपि सर्वेषां मदतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः "

 इति प्रागुक्तस्य भगवद्भजनस्य व्याख्यानाय सप्तमोऽध्याय आरम्यते । तत्र कीदृशं भगवतो रूपं भजनीयं कथं वा तद्वतोऽन्तरात्मा स्यादित्येद्वयं प्रष्टव्यमर्जुनेनापृष्टमपि परमकारुणिकतया स्वयमेव विवक्षुः-

श्रीभगवानुवाच-
 मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ॥
 असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥

 मयि परमेश्वरे सकलजगदायतनत्वादिविविधविभूतिभागिनि आसक्तं विषयान्तरपरिहारेण सर्वदा निविष्टं मनो यस्य तव स त्वम् । अत एव मदाश्रयो मदेकशरणः, राजाश्रयो भार्याद्यासक्तमनाश्च राजभृत्यः प्रसिद्धो मुमुक्षुस्तु मदाश्रयो मदासक्तमनाश्च, त्वं त्वद्विधो वा योगं युञ्जन्मनःसमाधानं षष्ठोक्तप्रकारेण कुर्वन् , असंशयं यथा भवत्येवं समग्रं सर्वविभूतिबलशक्त्यैश्वर्यादिसंपन्नं मां यथा येन प्रकारेण ज्ञास्यति तच्छृणूच्यमानं मया ॥ १ ॥

 श्री०टी०-विज्ञेयमात्मनस्तत्त्वं संयोग समुदीरितम् । भजनीयमयेदानीमैश्वरं रूपमीर्यते ॥१॥

 पूर्वाध्यायान्ते मद्गतेनान्तरात्मना यो मां भजते स मे युक्ततमो मत इत्युक्तं तत्र कीदृशस्त्वं यस्य भक्तिः कर्तव्येत्यपेक्षायां स्वस्वरूपं निरूपयिष्यश्रीभगवानुवाच-मय्यासक्तमना इति । मयि परमेश्वर आसक्तमभिनिविष्टं मनो यस्य स मदाश्रयोऽहमेवाऽऽश्रयो यस्यानन्यशरणः सन्योगं युञ्जन्नम्यसन्नसंशयं यथा भवत्येवं मां समग्रं विभूतिबलैश्चर्यादिसहितं यथा ज्ञास्यसि तदिदं मया वक्ष्यमाणं शृणु ॥ १ ॥

 म०टी०-ज्ञास्यसीत्युक्ते परोक्षमेव तज्ज्ञानं स्यादिति शङ्कां व्यावर्तयन्स्तौति श्रोतुराभिमुख्याय-

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ॥
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥२॥

 इदं मद्विषयं स्वतोऽपरोक्षज्ञानम् । असंभावनादिप्रतिबन्धेन फलमजनयत्परोक्षमित्युपचर्यते । असंभावनादिनिरासे तु विचारपरिपाकान्ते तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धाभावात्फलं जनयदपरोक्षमित्युच्यते । विचारपरिपाकनिष्पन्नत्वाच्च तदेव विज्ञानं, तेन विज्ञानेन सहितमिदमपरोक्षमेव ज्ञानं शास्त्रजन्यं ते तुभ्यमहं परमाप्तो वक्ष्यान्यशे.