पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०४६-४७]
२३७
श्रीमद्भगवद्गीता।


सोऽनेकेषु जन्मसूपचितेन योगेन संसिद्धः सम्यग्ज्ञानी भूत्वा ततः श्रेष्ठां गति यातीति किं वक्तव्यमित्यर्थः ॥ ४५ ॥

 म० टी०-इदानीं योगी स्तूयतेऽर्जुनं प्रति श्रद्धातिशयोत्पादनपूर्वकं योगं विधातुम्-

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ॥
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६॥

 तपस्विभ्यः कृच्छ्रचान्द्रायणादितपःपरायणेभ्योऽपि अधिक उत्कृष्टो योगी तत्त्वज्ञानोत्पत्त्यनन्तरं मनोनाशवासनाक्षयकारी।

" विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा [१]यन्ति नाविद्वांसस्तपस्विनः" इति श्रुतेः ॥

 अत एव कर्मिभ्यो दक्षिणासहितज्योतिष्टोमादिकर्मानुष्ठायिभ्यश्चाधिको योगी, कर्मिणां तपस्विनां चाज्ञत्वेन मोक्षानर्हत्वात् । ज्ञानिभ्योऽपि परोक्षज्ञानवद्भयोऽपि अपरोक्षज्ञानवानधिको मतो योगी । एवमपरोक्षज्ञानवद्भयोऽपि मनोनाशवासनाक्षयाभावादजीवन्मुक्तेभ्यो मनोनाशवासनाक्षयवत्त्वेन जीवन्मुक्तो योग्यधिको मतो मम संमतः । यस्मादेवं तस्मादधिकाधिकप्रयत्नबलात्वं योगभ्रष्ट इदानीं तत्त्वज्ञानमनोनाशवासनाक्षयैर्युगपत्संपादितैर्यौगी जीवन्मुक्तो यः स योगी परमो मत इति प्रागुक्तः स तादृशो भव साधनपरिपाकात्, हेऽ[२]र्जुनेति शुद्धेति संबोधनार्थः ॥ ४६ ॥

 श्री० टी०-यस्मादेवं तस्मात्-तपस्विभ्य इति । कृच्छ्चान्द्रायणादितपोनिष्ठेम्यो[३] ज्ञानिम्यः शास्त्रज्ञानवन्द्योऽपि कर्मिभ्य इष्टा[४] पूर्तादि[५]कर्मकारिभ्योऽपि योगी श्रेष्ठोऽभिमतस्तस्मात्त्वं योगी भव ॥ ४६ ॥

 म०टी०-इदानीं सर्वयोगिश्रेष्ठं योगिनं वदन्नध्यायमुपसंहरति-

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ॥
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः॥४७॥

इति श्रीमहाभारते शतसाहत्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवाद आत्मसंयम-

योगो नाम षष्ठोऽध्यायः ॥ ६॥


  1. क. ख. झ. यान्ति ।
  2. झ. र्जुन शु।
  3. क, भ्योऽपि ज्ञा।
  4. ख. ग. घ. ङ, च. छ. ज. भ. पूर्तका' ।
  5. झ. 'दिका ।