पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १ क्ष्लो ० ३६ ]
२१
श्रीमद्भगवद्गीता ।


 त्रैलोक्यराज्यस्यापि हेतोस्तत्प्राप्त्यर्थमपि अस्मान्घ्नतोऽप्येतान्न हन्तुमिच्छामीच्छामपि न कुर्यामहं किं पुनर्हन्यां, महीमात्रप्राप्तये तु न हन्यामिति किमु वक्तव्यमित्यर्थः । मधुसूदनेति संबोधयन्वैदिकमार्गप्रवर्तकत्वं भगवतः सूचयति ॥ ३९ ॥

 म० टी०-नन्वन्यान्विहाय धार्तराष्ट्रा एवं हन्तव्यास्तेषामत्यन्तक्रूरतरतत्तद्दुःखदातृणां वधे प्रीतिसंभवादित्यत आह-

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याजनार्दन ॥
पापमेवाऽऽश्रयेस्मान्हत्वैतानाततायिनः ॥ ३६॥

 धार्तराष्ट्रान्दुर्योधनादीन्भ्रातृन्निहत्य स्थितनामस्माकं का प्रीतिः स्यात्, न काऽपीत्यर्थः । नहि मूढजनोचितक्षणमात्रवर्तिसुखाभासलोभेन चिरतरनरकयातनाहेतुर्बन्धुवधोऽस्माकं युक्त इति भावः । जनार्दनेतिसंबोधनेन यदि वध्या एते तर्हि त्वमेवैताञ्जहि प्रलये सर्वजनहिंसकत्वेऽपि सर्वपापासंसर्गित्वादिति सूचयति । ननु--

"अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्र[१] [२]दारापहारी च षडेते आततायिनः" ॥

 इति स्मृतेरेतेषां च सर्वप्रकारैराततायित्वात्,

आततायिनमायान्तं हन्यादेवाविचारयन् ।
नाऽऽततायिवधे दोषो हन्तुर्भवति कश्चन " ॥

 इति वचनेन दोषाभावप्रतीतेर्हन्तव्या एवं दुर्योधनादय आततायिन इत्याशङ्कयाऽऽह-पापमेवेति । एतानाततायिनोऽपि हत्वा स्थितानस्मान्पापमाश्रयेदेवेति संबन्धः । अथवा पापमेवाऽऽश्रयेन्न किंचिदन्यद्दष्टमद्दष्टं वा प्रयोजनमित्यर्थः । “न हिंस्यात् ' इति धर्मशास्त्रादाततायिने हन्यादित्यर्थशास्त्रस्य दुर्बलत्वात् । तदुक्तं याज्ञवल्क्ये न----

"स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।
अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः "इति ॥

 अपरा व्याख्या--ननु धार्तराष्ट्रान्घ्नतां भवतां प्रीत्यभावेऽपि युष्मान्घ्नतां धार्तराष्ट्राणां प्रीतिरस्त्येवातस्ते युष्मान्हन्युरित्यत आह-पापमेवेति । अस्मान्हत्वा स्थितानेतानाततायिनो धार्तराष्ट्रान्पूर्वमपि पापिनः सांप्रतमपि पापमेवाऽऽश्रयेन्नान्यत्किंचित्सुस्वमित्यर्थः । तथा चायुध्यतोऽस्मान्हत्वैत एव पापिनो भविष्यन्ति नास्माकं काऽपि क्षतिः पापासंबन्धादित्यभिप्रायः ॥ ३६ ॥


  1. क. “तै यात” ।
  2. क. “दारहरश्चैव ष।