पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
[अ०६क्ष्लो०]
मधुसूदनसरस्वतीश्रीधरस्वामिकतटीकाभ्यां समेता-


कानां मध्ये विद्यमानोऽपि योगभ्रष्टः स्वयमनिच्छन्नपि ज्ञानसंस्कारेण बलवता स्वसामर्थ्यविशेषादेव सर्वान्प्रतिबन्धकानभिभूयाऽऽत्मवशी क्रियत इति दृढ् प्रयोगेण सूचितम् । अत एव संस्कारप्राबल्याज्जिज्ञासुर्ज्ञातुमिच्छुरपि योगस्य मोक्षसाधनज्ञानस्य विषयं ब्रह्म, प्रथमभूमिकायां स्थितः संन्यासीति यावत् । सोऽपि तस्यामेव भूमिकायां मृतोऽन्तराले बहून्विषयान्मुक्त्वा महाराजचक्रवर्तिनां कुले समुत्पन्नोऽपि योगभ्रष्टः प्रागुपचितज्ञानसंस्कारप्राबल्यात्तस्मिञ्जन्मनि शब्दब्रह्म वेदं कर्मप्रतिपादकमतिवर्ततेऽतिक्रम्य तिष्ठति कर्माधिकारातिक्रमेण ज्ञानाधिकारी भवतीत्यर्थः । एतेनापि ज्ञानकर्मसमुच्चयो निराकृत इति द्रष्टव्यं, समुच्चये हि ज्ञानिनोऽपि कर्मकाण्डातिक्रमाभावात् ॥४४॥

 श्री०टी०-तत्र हेतुः-पूर्वेति । तेनैव पूर्वदेहकृताम्यासेनावशोऽपि कुतश्चिदन्तरायादनिच्छन्नपि संह्रियते विषयेभ्यः परावर्त्य ब्रह्मनिष्ठः क्रियते । तदेवं पूर्वाभ्यासवशेन प्रयत्न कुर्वञ्शनैर्मुच्यत इतीममर्थं कैमुत्यन्यायेन स्फुटयति-जिज्ञासुरितिसार्धैन । योगस्य स्वरूपं जिज्ञासुरेव केवलं न तु प्राप्तयोगः । एवंभूतो योगे प्रविष्टमान्नोऽपि पापवशाद्योगभ्रष्टोऽपि शब्दब्रह्म वेदमतिवर्तते वेदोक्तकर्मफलान्यतिक्रामति तेभ्योऽधिकं फलं प्राप्य मुच्यत इत्यर्थः ॥ ४४ ॥

 म० टी०-यदा चैवं प्रथमभूमिकायां मृतोऽपि अनेकभोगवासनाव्यवहितमपि विविधप्रमादकारणवति महाराजकुलेऽपि जन्म लब्ध्वाऽपि योगभ्रष्टः पूर्वोपचितज्ञानसंस्कारप्राबल्येन कर्माधिकारमतिक्रम्य ज्ञानाधिकारी भवति तदा किमु वक्तव्यं द्वितीयायां तृतीयायां वा भूमिकायां मृतो विषयभोगान्ते लब्धमहाराजकुलजन्मा यदि वा भोगमकृत्वैव लब्धब्रह्मविद्राह्मणकुलजन्मा योगभ्रष्टः कर्माधिकारातिक्रमेण ज्ञानाधिकारी भूत्वा तत्साधनानि संपाद्य तत्फललाभेन संसारबन्धनान्मुच्यत इति । तदेतदाह-

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः॥
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥४५॥

 प्रयत्नात्पूर्वकृतादप्यधिकमधिकं यतमानः प्रयत्नातिरेकं कुर्वन्योगी पूर्वोपचितसंस्कारवांस्तेनैव योगप्रयत्नपुण्येन संशद्धकिल्बिषो धौतज्ञानप्रतिबन्धकपापमलः । अत एव संस्कारोपचयात्पुण्योपच[१]याच्चानेकैर्जन्मभिः संसिद्धः संस्कारातिरेकेण पुण्यातिरेकेण च प्राप्तचरमजन्मा ततः साधनपरिपाकाद्याति परां प्रकृष्टां गतिं मुक्तिम् । नास्त्येवात्र कश्चित्संशय इत्यर्थः ॥ ४५ ॥

 श्री०टी०-यदैवं मन्दप्रयत्नोऽपि योगी परां गति याति तदा यस्तु योगी प्रयत्नादुत्तरोत्तरमधिकं योगे यतमानो यत्नं कुर्वन्योगेनैव संशुद्धकिल्विषो विधूतपापः


  1. ड. ञ याच लब्धैरने ।