पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०४१-४२]
२३३
श्रीमद्भगवद्गीता।


प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः॥
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥४१॥

 योगमार्गप्रवृत्तः सर्वकर्मसंन्यासी वेदान्तश्रवणादि कुर्वन्नन्तराले म्रियमाणः कश्चित्पूर्वोपचितभोगवासनाप्रादुर्भावाद्विषयेभ्यः स्पृहयति । कश्चित्तु वैराग्यभावनादार्ढ्यान्न स्पृहयति । तयोः प्रथमः प्राप्य पुण्यकृतामश्वमेधयाजिनां लोकानर्चिरादिमार्गेण ब्रह्मलोकान् । एकस्मिन्नपि भोगभूमिभेदापेक्षया बहुवचनम् । तत्र चोषित्वा वासमनुभूय शाश्वतीर्ब्रह्मपरिमाणेनाक्षयाः समाः संवत्सरान् , तदन्ते शुचीनां शुद्धानां श्रीमतां विभूतिमतां महाराजचक्रवर्तिनां गेहे कुले भोगवासनाशेषसद्भावादजातशत्रुजनकादिवद्योगभ्रष्टोऽभिजायते । भोगवासनाप्राबल्याद्ब्रह्मलोकान्ते सर्वकर्मसं[१]न्यासायोग्यो महाराजो भवतीत्यर्थः ॥ ४१॥

 श्री०टी०-तर्हि किमसौ प्राप्नोतीत्यपेक्षायामाह-प्राप्येति । पुण्यकारिणामश्वमेधादियाजिनां लोकान्प्राप्य तत्र शाश्वतीः समा बहूसंवत्सरानुषित्वा[२] वाससुखमनुभूय शुचीनां सदाचाराणां श्रीमतां धनिनां गेहे[३] योगभ्रष्टोऽभिजायते जन्म प्राप्नोति ॥ ४१ ॥

 म०टी०-द्वितीयं प्रति पक्षान्तरमाह-

अथवा योगिनामेव कुले भवति धीमताम् ॥
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥

 श्रद्धावैराग्यादिकल्याणगुणाधिक्ये तु भोगवासनाविरहात्पुण्यकृतां लोकानप्राप्यैव योगिनामेव दरिद्राणां ब्राह्मणानां न तु श्रीमतां राज्ञां कुले भवति धीमतां ब्रह्मविद्यावताम् । एतेन योगिनामिति न कर्मिग्रहणम् । यच्छुचीनां श्रीमतां राज्ञां गृहे योगभ्रष्टजन्म तदपि दुर्लभमनेकसुकृतसाध्यत्वान्मोक्षपर्यवसायित्वाच्च । यत्तु शुचीनां दरिद्राणां ब्राह्मणानां ब्रह्मविद्यावतां कुले जन्म, एतद्धि प्रसिद्धं शुकादिवत्, दुर्लभतरं दुर्लभादपि दुर्लभं लोके यदीदृशं सर्वप्रमादकारणशून्यं जन्मेति द्वितीयः स्तूयते भोगवासनाशून्यत्वेन सर्वकर्मसंन्यासार्हत्वात् ॥ ४२ ॥

 श्री० टी-अल्पकालाभ्यस्तयोगभ्रंशे गतिरियमुक्ता । चिराभ्यस्तयोगभ्रंशे तु पक्षान्तरमाह-अथवेति । योगनिष्ठानां धीमतां ज्ञानिनामेव कुले जायते न तु पूर्वोक्तानामनारूढयोगानां कुले जायते । एतज्जन्म स्तौति-ईदृशं यज्जन्म, एतद्धि लोके दुर्लभतरं मोक्षहेतुत्वात् ॥ ४२ ॥

 म०. टी०.-एतादृशजन्मद्वयस्य दुर्लभत्वं कस्मात् । यस्मात्-


  1. झ. 'न्यासयों ।
  2. ख. ग. घ. 6. च. ज. न. वा तत्सुखं ।
  3. क. ख. ग. ह. च. छ. ज. ज. हे स यों।