पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
[अ०६ क्ष्लो०१४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तितितिक्षाश्रद्धादि[१]संपन्मुमुक्षुता चेतिसाधनचतुष्टयसंपन्नो गुरुमुपसृत्य वेदान्तवाक्यश्रवणादि कुर्वन्नपि परमायुषोऽल्पत्वेन मरणकाले चेन्द्रियाणां व्याकुलत्वेन साधनानुष्ठानासंभवाद्योगाच्चलितमानसो योगाच्छ्रवणादिपरिपाकलब्धजन्मनस्तत्त्वसाक्षात्काराच्चलितं तत्फलमप्राप्तं मानसं यस्य स योगानिष्पत्त्यैवाप्राप्य योगसंसिद्धिं तत्त्वज्ञाननिमित्तामज्ञानतत्कार्यनिवृत्तिमपुनरावृत्तिसहितामप्राप्यातत्त्वज्ञ एव मृतः सन्कां गतिं हे कृष्ण गच्छति सुगतिं दुर्गतिं वा, कर्मणां परित्यागाज्ज्ञानस्य चानुत्पत्तेः शास्त्रोक्तमोक्षसाधनानुष्ठायित्वाच्छास्त्रगर्हितकर्मशून्यत्वाच्च ॥ ३७ ॥

 श्री०टी०-अभ्यासवैराग्यामावेन कथंचिदप्राप्तसम्यग्ज्ञानः किं फलमाप्नोतीति अर्जुन उवाच-अयतिरिति। प्रथमं श्रद्धयोपेत एव योगे प्रवृत्तो न तु मिथ्याचारतया, ततः परं तु अयतिर्न सम्यग्यतते शिथिलाभ्यास इत्यर्थः । तथा योगच्चलितं मानसं विषयप्रवणं चित्तं यस्य मन्दवैराग्य इत्यर्थः । एवमम्यासवैराग्यशैथिल्याद्योगस्य संसिद्धिं फलं ज्ञानमप्राप्य कां गतिं प्राप्नोति ॥ ३७ ॥

 म०टी०-एतदेव संशयबीजं विवृणोति-

कञ्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ॥
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८॥

 कञ्चिदिति साभिलाषप्रश्ने। हे महाबाहो महान्तः सर्वेषां भक्तानां सर्वोपद्रवनिवारणसमर्थाः पुरुषार्थचतुष्टयदानसमर्था वा चत्वारो बाहवो यस्येति प्रश्ननिमित्तक्रोधाभावस्तदुत्तरदानसहिष्णुत्वं च सूचितम् । ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे ज्ञाने विमूढो विचित्तः, अनुत्पन्नब्रह्मात्मैक्यसाक्षात्कार इति यावत् । अप्रतिष्ठो देवयानपितृयान(ण)मार्गगमनहेतुभ्यामुपासनाकर्मभ्यां प्रतिष्ठाभ्यां साधनाभ्यां रहितः सोपासनानां सर्वेषां कर्मणां परित्यागात् । एतादृश उभयविभ्रष्टः कर्ममार्गाज्ज्ञानमार्गाच्च विभ्रष्टश्छिन्नाभ्रमिव वायुना छिन्नं विशकलितं पूर्वस्मान्मेघाष्टमुत्तरं मेघमप्राप्तमभ्रं यथा वृष्टायोग्यं सदन्तराल एव नश्यति तथा योगभ्रष्टोऽपि पूर्वस्मात्कर्ममार्गाद्विच्छिन्न उत्तरं च ज्ञानमार्गमप्राप्तोऽन्तराल एव नश्यति कर्मफलं ज्ञानफलं च लब्धुमयोग्यो न किमिति प्रश्नार्थः । एतेन ज्ञानकर्मसमुच्चयो निराकृतः । एतस्मिन्हि पक्षे ज्ञानफलालाभेऽपि कर्मफललाभसंभवेनोभयविभ्रष्टत्वासंभवात् । न च तस्य कर्मसंभवेऽपि फलकामनात्यागात्तत्फलभ्रंशवचनमवकल्पत इति वाच्यं निष्कामाना(णा)मपि कर्मणां फलसद्भावस्याऽऽपस्तम्बवचनाद्युदाहरणेन बहुशः प्रतिपादितत्वात् । तस्मात्सर्वकर्मत्यागिनं प्रत्येवायं प्रश्नः, अनर्थप्राप्तिशङ्कायास्तत्रैव संभवात् ॥ ३८॥


  1. झ. द्धासं।