पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० ६ क्ष्लो० ३७]
२२९
श्रीमद्भगवद्गीता।


 श्री०टी०एतावास्त्विह निश्चय इत्याह-असंयतात्मनेति । उक्तप्रकारेणाभ्यासवैराग्याभ्यामसंयत आत्मा चित्तं यस्य तेन पुरुषेणायं योगो दुष्प्रापः प्राप्तुमशक्यः । अभ्यासवैराग्याभ्यां वश्यो वशवर्ती, आत्मा चित्तं यस्य तेन पुरुषेण पुनश्चानेनैवोपायेन प्रयत्नं कुर्वता योगः प्राप्तुं शक्यः ॥ ३६ ॥

 म०टी०-एवं प्राक्तनेन ग्रन्थेनोत्पन्नतत्त्वज्ञानोऽनुत्पन्नजीवन्मुक्तिरपरमो योगी मतः । उत्पन्नतत्त्वज्ञान उत्पन्नजीवन्मुक्तिस्तु परमो योगी मत इत्युक्तम् । तयोरुभयोरपि ज्ञानादज्ञाननाशेऽपि यावत्प्रारब्धभोगं कर्म देहेन्द्रियसंघातावस्थानात्प्रारब्धभोगकर्मापाये च वर्तमानदेहेन्द्रियसंघातापायात्पुनरुत्पादकाभावाद्विदेहकैवल्यं प्रति काऽपि नास्त्याशङ्का । यस्तु प्रा[१]क्कृतकर्मभिर्लब्धविविदिषापर्यन्तचित्तशुद्धिः कृत[२]कार्यत्वात्सर्वाणि कर्माणि परित्यज्य प्राप्तपरमहंसपरिव्राजकभावः परमहंसपरिव्राजकमात्मसाक्षात्कारेण जीवन्मुक्तं परप्रबोधनदर्श गुरुमुपसृत्य ततो वेदान्तमहावाक्योपदेशं प्राप्य तत्रासंभावनाविपरीतभावनाख्यप्रतिबन्धनिरासायाथातो ब्रह्मजिज्ञासेत्याधनावृत्तिः शब्दादित्यन्तया चतुर्लक्षणमीमांसया श्रवणमनननिदिध्यासनानि गुरुप्रसादात्कर्तुमारभते स श्रद्दधानोऽपि सन्नायुषोऽल्पत्वेनाल्पप्रयत्नत्वादलब्धज्ञानपरिपाकः श्रवणमनननिदिध्यासनेषु क्रियमाणेष्वेव मध्ये व्यापद्यते । स ज्ञानपरिपाकशून्यत्वेनानष्टाज्ञानो न मुच्यते, नाप्युपासनासहितकर्मफलं देवलोकमनुभवत्यर्चिरादिमार्गेण, नापि केवलकर्मफलं पितृलोकमनुभवति धूमादिमार्गेण, कर्मणामुपासनानां च त्यक्तत्वात् । अत एतादृशो योगभ्रष्टः कीटादिभावेन कष्टां गतिमियादज्ञत्वे सति देवयानपितृयान(ण)मार्गासंबन्धित्वाद्वर्णाश्रमाचारभ्रष्टवदथवा कष्टां गतिं नेयात् , शास्त्रनिन्दितकर्मशून्यत्वाद्वामदेववदितिसंशयपर्याकुलमनाः-

अर्जुन उवाच-
 अयतिः श्रद्धयोपेतो योगाच्चलितमानसः॥
 अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥

 यतिर्यत्नशीलः । अल्पार्थे नञ्, अलवणा यवागूरित्यादिवत्, अयतिरल्पयत्नः, श्रद्धया गुरुवेदान्तवाक्येषु विश्वासबुद्धिरूपयोपेतो युक्तः । श्रद्धा च स्वसहचरितानां शमादी नामुपलक्षणं " शान्तो दान्त उपरतस्तितिक्षुः [३]श्रद्धान्वितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति " इति श्रुतेः । तेन नित्यानित्यवस्तुविवेक इहामुत्रभोगविरागः शमदमोपर-


  1. ग. अ. अ. प्राक्तनक । क. घ. छ. ज. प्राकृत ।
  2. क. घ. अ. च. ज. अ. तकरत्वा । ख. छ, झ. तकरणत्वा ।
  3. ख. ग. ङ, अ. श्रद्धाचित्तो । घ. समाहितो। च. छ. ज. श्रद्धावित्तो ।