पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
[अ०१क्ष्लो०३३-३५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


ष्ठानतया नित्यं प्राप्तस्त्वमेव ममैहिकफलविरागं जानासीति सूचयन्संबोधयति-- गोविन्देति ॥ ३२ ॥

 म० टी०--राज्यादीनामाक्षेपे हेतुमाह-

येषामर्थे काक्षितं नो राज्यं भोगाः सुखानि च ॥
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥३३॥

 एतेन स्वस्य वैराग्येऽपि स्वीयानामर्थे यतनीयमित्यपास्तम् । एकाकिनो हि राज्याद्यनपेक्षितमेव । येषां तु बन्धूनामर्थे तदपेक्षितं त एते प्राणान्प्राणाशां धनानि धनाशां च त्यक्त्वा युद्धेऽवस्थिता इति न स्वार्थः स्वीयार्थो वाऽयं प्रयत्न इति भावः । भोगशब्दः पूर्वत्र सुखपरतया निर्दिष्टोऽप्यत्र पृथक्सुखग्रहणात्सुखसाधनविषयपरः । प्राणधनशब्दौ तु तदाशालक्षकौ । स्वप्राणत्यागेऽपि स्वबन्धूनामुपभोगाय धनाशा संभवेदिति तद्वारणाय पृथग्धनग्रहणम् ॥ ३३ ॥

 म० टी०-येषामर्थै राज्याद्यपेक्षितं तेऽत्र नाऽऽगता इत्याशङ्कय तान्वि- शिनष्टि--

आचार्याः पितरः पुत्रास्तथैव च पितामहाः॥ मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा॥३४॥

स्पष्टम् ॥ ३४ ॥

 श्री० टी०-कं च---न चेति । स्वजनमाहवे युद्धे हत्वा श्रेयः फलं न पश्यामि । विजयादिकं फलं किं न पश्यसीति चेत्तत्राऽऽह-न काङ्क्ष इति । एतदेव प्रपञ्चयति किं न इति सार्धाभ्याम् -यदर्थमस्माकं राज्यादिकमपेक्षितं त एते प्राणधनानि त्यक्त्वा त्यागमङ्गीकृत्य युद्धार्थमवस्थिताः । अतः किमस्माकं राज्यादिभिः कृत्यमित्यर्थः ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४॥

 म० टी०-ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्य- न्त्येवातस्त्वमेवैतान्हत्वा राज्यं भुङ्क्वेत्यत आह---

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ॥
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५॥


 च. झ. पुस्तकयोस्तु “ आचार्या द्रोणादयः । पितरः स्वगोत्रजाः । पुत्रा द्रौपद्यां जाताः स्वकीया अभिमन्यवादयो यो । पितामह भीष्मादयः । मातलाः शल्यशकुनिप्रभृतयः । श्वशुरा द्रुपदाद्याः । पौत्रा लक्ष्मणादिपुत्राः । श्याला धृष्टद्युम्नादयः। संबन्धिनो विवाहादिसंबन्धं प्राप्ताः । तथाईपरे बहवः स्वसेनापरसैनास्थिता योद्धार उभयोः सेनयोर्मध्ये मदीया एव । अतो न योत्स्यामीति भावः" इति व्याख्यानं वर्तते ।