पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
[अ०६ क्ष्लो०३५ ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


मन्ये । तस्मादनुपपन्नमेतदात्मौपम्येन सर्वत्र समदर्शी परमो योगी मत इत्यर्जुनस्याऽऽक्षेपः ॥ ३४॥

 श्री० टी-एतत्स्फुटयति-चञ्चलमिति । चञ्चल स्वभावेनैव चपलम् । किं च प्रमाथि प्रमथनशीलं देहेन्द्रियक्षोभकमित्यर्थः । किं च बलवद्विचारेणापि जेतुमशक्यम् । किं च दृढं विषयवासनानुबद्धतया दुर्भेदम् । अतो यथाऽऽकाशे दोधूयमानस्य वायोः कुम्भादिषु निरोधनमशक्यं तथा तस्य मनसोऽपि निग्रहं निरोधं सुदुष्करं सर्वथा कर्तुमशक्यं मन्ये ॥ ३४ ॥

 म०टी०-तमिममाक्षेपं परिहरन्-

श्रीभगवानुवाच-
 असंशयं महाबाहो मनो दुर्निग्रहं चलम् ॥
  अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥३५॥

 सम्यग्विदितं ते चित्तचेष्टितं मनो निग्रहीतुं शक्ष्यसीति संतोषेण संबोधयति हे महाबाहो महान्तौ साक्षान्महादेवेनापि सह कृतप्रहरणौ बाहू यस्येति निरतिशयमुत्कर्षं सूचयति । प्रारब्धकर्मप्राबल्यादसंयतात्मना दुनिग्रहं दुःखेनापि निग्रहीतुमशक्यम् । प्रमाथि बलवदृढमिति विशेषणत्रयं पिण्डीकृत्यैतदुक्तम् । चलं स्वभावचञ्चलं मन इत्यसंशयं नास्त्येव संशयोऽत्र सत्यमेवैतद्ब्रवीषीत्यर्थः । एवं सत्यपि संयतात्मना[१] समाधिमात्रोपायेन [२]योगिनाऽभ्यासेन वैराग्येण च गृह्यते निगृह्यते सर्ववृत्तिशून्यं क्रियते तन्मन इत्यर्थः । अनिग्रहीतुरसंयतात्मनः सकाशात्संयतात्मनो निग्रहीतुर्विशेषद्योतनाय तुशब्दः । मनोनिग्रहेऽभ्यासवैराग्ययोः समुच्चयबोधनाय चशब्दः । हे कौन्तेयेति पितृष्वसृपुत्रस्त्वमवश्यं मया सुखी कर्तव्य इति स्नेहसंबन्धसूचनेनाऽऽश्वासयति । अत्र प्रथमार्धन चित्तस्य हठनिग्रहो न संभवतीति द्वितीयार्धेन तु क्रमनिग्रहः संभवतीत्युक्तम् । द्विविधो हि मनसो निग्रहः-हठेन क्रमेण च । तत्र चक्षुःश्रोत्रादीनि ज्ञानेन्द्रियाणि वाक्पाण्यादीनि कर्मेन्द्रियाणि च तद्गोलकमात्रोपरोधेन हठान्निगृह्यन्ते । तदृष्टान्तेन मनोऽपि हठेन निग्रहीष्यामीति मूढस्य भ्रान्तिर्भवति । न च तया निग्रहीतुं शक्यते तद्गोलकस्य हृदयकमलस्य निरोधुमशक्यत्वात् । अत एव च क्रमनिग्रह एष युक्तस्तदेतद्भगवान्वसिष्ठ आह-

" उपविश्योपविश्यैव चित्तज्ञेन मुहूर्मुहुः ।
न शक्यते मनो जेतुं विना युक्तिमानिन्दिताम् ॥
अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः ।
अध्यात्मविद्याधिगमः साधुसंगम एव च ॥


  1. ख. झ. नाऽतिमा । घ. 'नाऽधिमा ।ज. ना धीमा ।
  2. अ. योगेना।