पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
[अ०६ क्ष्लो०१२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


भिनिवेशः सामान्येनोदाहरणम् । सा च वासना द्विविधा मलिना शुद्धा च । शुद्धा दैवी संपत् , शास्त्रसंस्कारप्राबल्यात्तत्त्वज्ञानसाधनत्वेनैकरूपैव । मलिना तु त्रिविधा लोकवासना शास्त्रवासना देहवासना चेति । सर्वे जना यथा न निन्दन्ति तथैवाऽऽचरिष्यामीत्यशक्यार्थाभिनिवेशो लोकवासना । तस्याश्च को लोकमाराधयितुं समर्थ इति न्यायेन संपादयितुमशक्यत्वात्पुरुषार्थानुपयोगित्वाच्च मलिनत्वम् । शास्त्रवासना तु त्रिविधा पाठव्यसनं बहुशास्त्रव्यसनमनुष्ठानव्यसनं चेति क्रमेण भरद्वाजस्य दुर्वाससो निदाघस्य च प्रसिद्धा । मलिनत्वं चास्याः क्लेशावहत्त्वात्पुरुषार्थानुपयोगित्वादर्पहेतुस्वाज्जन्महेतुत्वाच्च । देहवासनाऽपि त्रिविधा-~-आत्मत्त्वभ्रान्तिर्गुणाधानभ्रान्तिर्दोषापनयनभ्रान्तिश्चेति । तत्राऽऽत्मत्वभ्रान्तिर्विरोचनादिषु प्रसिद्धा सार्वलौकिकी । गुणाधानं द्विविधं लौकिक शास्त्रीयं च । समीचीनशब्दादिविषयसंपादनं लौकिकं, गङ्गास्नाननशालग्रामतीर्थादिसंपादनं शास्त्रीयम् । दोषापनयनमपि द्विविधं लौकिकं शास्त्रीयं च । चिकित्सकोक्तैरौषधैाध्याद्यपनयनं लौकिकं, वैदिकस्नानाचमनादिभिरशौचाद्यपनयनं वैदिकम् । एतस्याश्च सर्वप्रकाराया मलिनत्वमप्रामाणिकत्वादशक्यत्वात्पुरुषार्थानुपयोगित्वात्पुनर्जन्महेतुत्वाच्च शास्त्रे प्रसिद्धम् । तदेतल्लोकशास्त्रदेहवासनात्रयमविवेकिनामुपादेयत्वेन प्रतिभासमानमपि विविदिषोर्वेदनोत्पत्तिविरोधित्वाद्विदुषो ज्ञाननिष्ठाविरोधित्वाच्च विवेकिभिर्हेयम् । तदेवं बाह्यविषयवासना त्रिविधा निरूपिता । आभ्यन्तरवासना तु कामक्रोधदम्भदर्पाद्यासुरसंपद्रूपा सर्वानर्थमूलं मानसी वासनेत्युच्यते । तदेवं बाह्याभ्यन्तरवासनाचतुष्टयस्य शुद्धवासनया क्षयः संपादनीयः । तदुक्तं वसिष्ठेन-

" मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः ।
मैत्र्यादिवासना राम गृहाणामलवासनाः ” इति ॥

 तत्र विषयवासनाशब्देन पूर्वोक्तास्तिस्रो लोकशास्त्रदेहवासना विवक्षिताः । मानसवासनाशब्देन कामक्रोधदम्भदांद्यासुरसंपद्विवक्षिता । यद्वा शब्दस्पर्शरूपरसगन्धा विषयाः। तेषां भुज्यमानत्वदशाजन्यः संस्कारो विषयवासना । काम्यमानत्वदशाजन्यः संस्कारो मानसवासना । अस्मिन्पक्षे पूर्वोक्तानां चतसृणामनयोरेवान्तर्भावः, बाह्याभ्यन्तरव्यतिरेकेण वासनान्तरासंभवात् । तासां वासनानां परित्यागो नाम तद्विरुद्धमैत्र्यादिवासनोत्पादनम् । ताश्च मैत्र्यादिवासना भगवता पतञ्जलिना सूत्रिताः प्रासंक्षेपेण व्याख्याता अपि पुनर्व्याख्यायन्ते । चित्तं हि रागद्वेषपुण्यपापैः कलुषी क्रियते । तत्र “ सुखानुशयी रागः " मोहादनुभूयमानं सुखमनुशेते कश्चिद्धीवृत्तिविशेषो राजसः सर्व सुखजातीयं मे भूयादिति । तच्च दृष्टादृष्टसामग्र्यभावात्संपादयितुमशक्यम् । अतः स रागश्चित्तं कलुषी करोति । यदा तु सुखिषु प्राणिष्वयं मैत्री भावयेत्सर्वेऽप्येते