पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६-क्ष्लो०३२]
२१९
श्रीमद्भगवद्गीता।


 पौरुषो यत्नः केनाप्युपायेनावश्यं संपादयिष्यामीत्येवंविधोत्साहरूपो निबन्धः । विवेको नाम विविच्य निश्चयः । तत्त्वज्ञानस्य श्रवणादिकं साधनं, मनोनाशस्य योगः, वासनाक्षयस्य प्रतिकूलवासनोत्पादनमिति । एतादृशविवेकयुक्तेन पौरुषेण प्रयत्नेन भोगेच्छायाः स्वल्पाया अपि हविषा कृष्णवर्मेवेति न्यायेन वासनावृद्धिहेतुत्वादूरत इत्युक्तम् । द्विविधो हि विद्याधिकारी कृतोपास्तिरकृतोपास्तिश्च । तत्र य उपास्यसाक्षात्कारपर्यन्तामुपास्ति कृत्वा तत्त्वज्ञानाय प्रवृत्तस्तस्य वासनाक्षयमनोनाशयोदृढतरत्वेन ज्ञानादूर्ध्व जीवन्मुक्तिः स्वत एव सिध्यति । इदानींतनस्तु प्रायेणाकृतोपास्तिरेव मुमुक्षुरौत्सुक्यमात्रात्सहसा विद्यायां प्रवर्तते । योगं विना चिज्जडविवेकमात्रेणैव च मनोनाशवासनाक्षयौ तात्कालिको संपाद्य शमदमादिसंपत्त्या श्रवणमनननिदिध्यास नानि संपादयति । तैश्च दृढाभ्यस्तैः सर्वबन्धविच्छेदि तत्त्वज्ञानमुदेति । अविद्याग्रन्थिरब्रह्मत्वं हृदयग्रन्थिः संशयाः कर्माण्यसर्वकामत्वं मृत्युः पुनर्जन्म चेत्यनेकविधो बन्धो ज्ञानान्निवर्तते । तथा च श्रूय[१]ते--" यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य, " " ब्रह्म वेद ब्रह्मैव भवति,"

"भिद्यते त्दृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे"॥

 " सत्यं ज्ञानमनन्तं ब्रह्म," " यो वेद निहितं गुहायां परमे व्योमन् ," " सोऽश्रुते सर्वान्कामान्सह " | " तमेव विदित्वाऽति मृत्युमेति"।

"यस्तु विज्ञानवान्भवत्यमनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते " ॥

 “य एवं वेदाहं ब्रह्मास्मीति स इद सर्वं भवति" इत्यसर्वत्वनिवृत्तिफलमुदाहार्यम् । सेयं विदेहमुक्तिः सत्यपि देहे ज्ञानोत्पत्तिसमकालीना ज्ञेया । ब्रह्मण्यविद्याध्यारोपितानामेतेषां बन्धानामविद्यानाशे सति निवृत्तौ पुनरुत्पत्त्यसंभवात् । अतः शैथिल्यहेत्वभावात्तत्त्वज्ञानं तस्यानुवर्तते । मनोनाशवासनाक्षयौ तु दृढाभ्यासाभावाद्भोगप्रदेन प्रार- ब्धेन कर्मणा बाध्यमानत्वाच्च सवातप्रदेशप्रदीपवत्सहसा निवर्तेते । अत इदानींतनस्य तत्त्वज्ञानिनः प्राक्सिद्धे तत्त्वज्ञाने न प्रयत्नापेक्षा । किं तु मनोनाशवासनाक्षयौ प्रयत्नसाध्याविति । तत्र मनोनाशोऽसंप्रज्ञातसमाधिनिरूपणेन निरूपितः प्राक् । वासनाक्षयस्त्विदानीं निरूप्यते । तत्र वासनास्वरूपं वसिष्ठ आह----

दृढभावनया त्यक्तपूर्वापरविचारणम् ।
यदादानं पदार्थस्य वासना सा प्रकीर्तिता"॥

 अत्र च स्वस्वदेशाचारकुलधर्मस्वभावभेदतद्गतापशब्दसुशब्दादिषु प्राणिनाम-


  1. ख. घ. ङ. च, छ. ज. झ. ज.ते-'एतद्यो वे ।