पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
[अ०६ क्ष्लो० ३२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 म०टी०-एवमुत्पन्नेऽपि तत्त्वबोधे कश्चिन्मनोनाशवासनाक्षययोरभावाज्जीवन्मुक्तिसुखं नानुभवति चित्तविक्षेपेण च दृष्टदुःखमनुभवति सोऽपरमो योगी देहपाते कैवल्यभागित्वात् , देहसद्भावपर्यन्तं च दृष्टदुःखानुभवात् , तत्त्वज्ञानमनोनाशवासनाक्षयाणां तु युगपदभ्यासादृष्टदुःखनिवृत्तिपूर्वकं जीवन्मुक्तिसुखमनुभवन्प्रारब्धकर्मवशात्समाधेर्युत्थानकाले-

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ॥
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥३२॥

 आत्मैवौपम्यमुपमा तेनाऽऽत्मदृष्टान्तेन सर्वत्र प्राणिजाते सुखं वा यदि वा दुःखं समं तुल्यं यः पश्यति स्वस्यानिष्टं यथा न संपादयति एवं परस्याप्यनिष्टं यो न संपादयति प्रद्वेषशून्यत्वात् । एवं स्वस्येष्टं यथा संपादयति तथा परस्यापीष्टं यः संपादयति रागशून्यत्वात् , स निर्वासनतयोपशान्तमना योगी ब्रह्मवित्परमः श्रेष्ठो मतः पूर्वस्मात् , हेऽर्जुन । अतस्तत्त्वज्ञानमनोनाशवासनाक्षयाणामक्रममभ्यासाय महान्प्रयत्न आस्थेय इत्यर्थः । तत्रेदं सर्वं द्वैतजातमद्वितीये चिदानन्दात्मनि मायया कल्पितत्वान्मृषैवाऽऽत्मैवैकः परमार्थसत्यः सच्चिदानन्दाद्वयोऽहमस्मीति ज्ञानं तत्त्वज्ञानं प्रदीपज्वालासंतानवद्वृत्तिसंतानरूपेण परिणममानमन्तःकरणद्रव्यं मननात्मकत्वान्मन इत्युच्यते । तस्य नाशो नाम वृत्तिरूपपरिणाम परित्यज्य सर्ववृत्तिविरोधिना निरोधाकारेण परिणामः । पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतुश्चित्तगतः संस्कारविशेषो वासना पूर्वपूर्वाभ्यासेन चित्ते वास्यमानत्वात् । तस्याः क्षयो नाम विवेकजन्यायां चित्तप्रशमवासनायां दृढायां सत्यपि बाह्ये निमित्ते क्रोधाद्यनुत्पत्तिः । तत्र तत्त्वज्ञाने सति मिथ्याभूते जगति नरविषाणादाविव धीवृत्त्यनुदयादात्मनश्च दृष्टत्वेन पुनर्वृत्त्यनुपयोगानिरिन्धनाग्निवन्मनो नश्यति । नष्टे च मनसि संस्कारोबोधकस्य बाह्यस्य निमित्तस्याप्रतीतौ वासना क्षीयते[१]। क्षीणायां वासनायां हेत्वमावेन क्रोधादिवृत्त्यनुदयान्मनो नश्यति । नष्टे च मनसि शमदमादिसंपत्त्या तत्त्वज्ञानमुदेति । एवमुत्पन्ने तत्त्वज्ञाने रागद्वेषादिरूपा वासना क्षीयते । क्षीणायां च वासनायां प्रतिबन्धाभावात्तत्त्वज्ञानोदय इति परस्परकारणत्वं दर्शनीयम् । अत एवं भगवान्वसिष्ठ आह---

" तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च ।
मिथःकारणतां गत्वा दुःसाध्यानि स्थितानि हि ॥
तस्माद्राघव यत्नेन पौरुषेण विवेकिना।
भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाश्रय " इति ॥


  1. ख. च. छ. ज, झ.ते । एवं क्षीं ।