पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०३१]
२१७
श्रीमद्भगवद्गीता।


तथाऽपि केवळस्यापि तत्पदार्थस्य योगजापरोक्षज्ञानविषयत्वमुपपद्यत एव । एवं योगजेन प्रत्यक्षेण मामपरोक्षीकुर्वन्स च मे न प्रणश्यति परोक्षो न भवति । स्वात्मा हि मम स विद्वानतिप्रियत्वात्सर्वदा मदपरोक्षज्ञानगोचरो भवति “ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् " इत्युक्तेः । तथैव शरशय्यास्थभीष्मध्यानस्य युधिष्ठिरं प्रति भगवतोक्तेः :। अविद्वांस्तु स्वात्मानमपि सन्तं भगवन्तं न पश्यति । अतो भगवान्पश्यन्नपि तं न पश्यति “स एनमविदितो न सुनक्ति" इति श्रुतेः । विद्वांस्तु सदैव संनिहितो भगवतोऽनुग्रहभाजनमित्यर्थः ॥ ३० ॥

 श्री०टी०-एवंभूतात्मज्ञानस्य सर्वभूतात्मतया मदुपासनं मुख्य कारणमित्याह-य इति । मां परमेश्वरं सर्वत्र भूतमात्रे यः पश्यति सर्वं च प्राणिमात्रं च मयि यः पश्यति तस्याहं न प्रणश्यामि अदृश्यो न भवामि । स च ममादृश्यो न भवति । प्रत्यक्षो भूत्वा कृपादृष्ट्या तं विलोक्यानुगृह्णामीत्यर्थः ॥ ३० ॥

 म०टी०-एवं त्वंपदार्थ तत्पदार्थं च शुद्धं निरूप्य तत्त्वमसीतिवाक्यार्थं निरूपयति-

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ॥
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥

 सर्वेषु भूतेष्वधिष्ठानतया स्थितं सर्वानुस्यूतसन्मात्रं मामीश्वरं तत्पदलक्ष्यं स्वेन त्वंपदलक्ष्येण सहैकत्वमत्यन्ताभेदमास्थितो घटाकाशो महाकाश इत्यत्रेवोपाधिभेदनिराकरणेन निश्चिन्वन्यो भजति अहं ब्रह्मास्मीतिवेदान्तवाक्यजेन साक्षात्कारेणापरोक्षी करोति सोऽविद्यातत्कार्यनिवृत्त्या जीवन्मुक्तः कृतकृत्य एव भवति । यावत्तु तस्य बाधितानुवृत्त्या शरीरादिदर्शनमनुवर्तते तावत्प्रारब्धकर्मप्राबल्यात्सर्वकर्मत्यागेन वा याज्ञवल्क्यादिवत्, विहितेन कर्मणा वा जनकादिवत्, प्रतिषिद्धेन कर्मणा वा दत्तात्रेयादिवत् , सर्वथा येन केनापि रूपेण वर्तमानोऽपि व्यवहरन्नपि स योगी ब्रह्माहमस्मीति. विद्वान्मयि परमात्मन्येवाभेदेन वर्तते । सर्वथा तस्य मोक्ष प्रति नास्ति प्रतिबन्धशङ्का “ तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवति" इति श्रुतेः । देवा महाप्रभावा अपि तस्य मोक्षाभवनाय नेशते किमुतान्ये क्षुद्रा इत्यर्थः । ब्रह्मविदो निषिद्ध कर्मणि प्रवर्तकयो रागद्वेषयोरसंभवेन निषिद्धकर्मासंभवेऽपि तदङ्गीकृत्य ज्ञानस्तुत्यर्थमिदमुक्तं सर्वथा वर्तमानोऽपीति हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यत इतिवत् ॥ ३१ ॥

 श्री०टी०-न चैवंभूतो विधिकिंकरः स्यादित्याह-सर्वभूतस्थितमिति । सर्वेषु भूतेषु स्थित मामभेद[१]मास्थित आश्रितो यो भजति स योगी ज्ञानी सन्सर्वथा कर्मत्यागेनापि वर्तमानो मय्येव वर्तते मुच्यते न तु भ्रश्यतीत्यर्थः ॥ ३१ ॥


  1. ख. ग. घ. ङ. च. छ. ज. झ. अ. "माश्रित्य यो ।