पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६ क्ष्लो ०२८]
२१३
श्रीमद्भगवद्गीता।


मनसं वृत्तिशून्यतया निर्मनस्कम् । निर्मनस्कत्वे हेतुगर्भं विशेषणद्वयं शान्तरजसमकल्मषमिति । शान्तं विक्षेपकं रजो यस्य तं विक्षेपशून्यम् । तथा न विद्यते कल्मषं लयहेतुस्तमो यस्य तमकल्मषं लयशून्यम् । शान्तरजसमित्यनेनैव तमोगुणोपलक्षणेऽकल्मषं संसारहेतुधर्माधर्मादिवजितमिति वा । ब्रह्मभूतं ब्रह्मैव सर्वमिति निश्चयेन समं ब्रह्म प्राप्तं जीवन्मुक्तमेनं योगिनम् । एवमुक्तेन प्रकारेणेति श्रीधरः । उत्तम निरतिशयं सुखमुपैत्युपगच्छति । मनस्तद्वृत्त्योरमावे सुषुप्तौ स्वरूपसुखाविर्भावप्रसिद्धिं द्योतयति हिशब्दः । तथा च प्राग्व्याख्यातं सुखमात्यन्तिकं यत्तदित्यत्र ॥ २७ ॥

 श्री० टी०-एवं प्रत्याहारादिभिः पुनः पुनर्मनो वशीकुर्वन्तं रजोगुणक्षये सति योगसुखं प्राप्नोतीत्याह-प्रशान्तमनसमिति । एवमुक्तेन प्रकारेण शान्तं रजो यस्य तम् । अत एव प्रशान्तं मनो यस्य तमेनं निष्कल्मषं ब्रह्मत्वं प्राप्तं योगिनमुत्तमं सुखं समाधिसुखं स्वयमेवोपैति प्राप्नोति ॥ २७ ॥

 म०टी०-उक्तं सुखं योगिनः स्फुटी करोति-

युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः ॥
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्रुते ॥ २८ ॥

 एवं मनसैवेन्द्रियग्राममित्याधुक्तक्रमेणाऽऽत्मानं मनः सदा युञ्जन्समादधद्योगी योगेन नित्यसंबन्धी विगतकल्मषो विगतमलः संसारहेतुधर्माधर्मरहितः सुखेनानायासेनेश्वरप्रणिधानात्सर्वान्तरायनिवृत्त्या ब्रह्मसंस्पर्शं सम्यक्त्वेन विषयास्पर्शेन सह ब्रह्मणः स्पर्शस्तादात्म्यं यस्मिंस्तद्विषयासंस्पर्शि ब्रह्मस्वरूपमित्येतत् । अत्यन्तं सर्वामन्तान्परिच्छेदानतिक्रान्तं निरतिशयं सुखमानन्दमश्नुते व्याप्नोति, सर्वतोनिर्वृत्तिकेन चित्तेन लयविक्षेपविलक्षणमनुभवति, विक्षेपे वृत्तिसत्त्वात् , लये च मनसोऽपि स्वरूपेणासत्त्वात् । सर्ववृत्तिशून्येन सूक्ष्मेण मनसा सुखानुभवः समाधावेवेत्यर्थः । अत्र चानायासेनेत्यन्तरायनिवृत्तिरुक्ता । ते चान्तराया दर्शिता योगसूत्रेण-" व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः" चित्तं विक्षिपन्ति योगादपनयन्तीति चित्तविक्षेपा योगप्रतिपक्षाः । संशयभ्रान्तिदर्शने ताववृत्तिरूपतया वृत्तिनिरोधस्य साक्षात्प्रतिपक्षौ । व्याध्यादयस्तु सप्त वृत्तिसहचरिततया तत्प्रतिपक्षा इत्यर्थः । व्याधिर्धातुवैषम्यनिमित्तो विकारो ज्वरादिः। स्त्यानमकर्मण्यता गुरुणा शिक्ष्यमाणस्याप्यासनादिकर्मानर्हतेति यावत् । योगः साधनीयो न वेत्युभयकोटिस्मृग्विज्ञानं संशयः । [स च] अतद्रूपप्रतिष्ठत्वेन विपर्ययान्तर्गतोऽपि सन्नुभयकोटिस्पशि[१]त्वैककोटिस्पर्शित्वरूपावान्तरविशेषविवक्षयाऽत्र विपर्ययाद्भेदेनोक्तः । प्रमादः


  1. ग. शित्व।