पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०२६]
२११
श्रीमद्भगवद्गीता।


सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥
नाऽऽस्वादयेत्सुखं तत्रं निःसङ्गः प्रज्ञया भवेत् ।
निश्चलं निश्चरचित्तमेकी कुर्यात्प्रयत्नतः ॥
यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।
अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा"

 इति पञ्चभिः श्लोकैः । उपायेन वक्ष्यमाणेन वैराग्याभ्यासेन कामभोगयोविक्षिप्तं प्रमाणविपर्ययविकल्पस्मृतीनामन्यतमयाऽपि वृत्त्या परिणतं मनो निगृह्णीयान्निरुन्ध्यादात्मन्येवेत्यर्थः । कामभोगयोरिति चिन्त्यमानावस्थाभुज्यमानावस्थाभेदेन द्विवचनम् । तथा लीयतेऽस्मिन्निति लयः सुषुप्तं तस्मिन्सुप्रसन्नमायासवर्जितमपि मनो निगृह्णीयादेव । सुप्रसन्नं चेत्कुतो निगृह्यते तत्राऽऽह-यथा कामो विषयगोचरप्रमाणादिवृत्त्युत्पादनेन समाधिविरोधी तथा लयोऽपि निद्राख्यवृत्त्युत्पादनेन समाधिविरोधी । सर्ववृत्तिनिरोधो हि समाधिः । अतः कामादिकृतविक्षेपादिव श्रमादिकृतलयादपि मनो निरोद्धव्यमित्यर्थः । उपायेन निगृह्णीयात्केनेत्युच्यते-सर्वं द्वैतमविद्याविजृम्भितमल्पं दुःखमेवेत्यनुस्मृत्य “यो वै भूमा तत्सुखं, नापे सुखमस्ति अथ यदल्प तन्मर्त्यं तदुः- खम्" इतिश्रुत्यर्थं गुरूपदेशादनु[१] पश्चात्पर्यालोच्य कामांश्चिन्त्यमानावस्थाविषयाभोगान्भुज्यमानावस्थांश्च विषयान्निवर्तयेत् , मनसः सकाशादिति शेषः । कामश्च भोगश्च कामभोगं तस्मान्मनो निवर्तयेदिति वा । एवं द्वैतस्मरणकाले वैराग्यभावनोपाय इत्यर्थः । द्वैतविस्मरणं तु परमोपाय इत्याह-अजं ब्रह्म सर्वं न ततोऽतिरिक्तं किंचिदस्तीति शास्त्राचार्योपदेशादनन्तरमनुस्मृत्य तद्विपरीतं द्वैतजातं न पश्यत्येव । अधिष्ठाने ज्ञाते कल्पि [२]तस्याभावात् । पूर्वोपायापेक्षया वैलक्षण्यसूचनार्थस्तुशब्दः । एवं वैराग्यभावनातत्त्वदर्शनाभ्यां विषयेभ्यो निवर्त्यमानं चित्तं यदि दैनंदिनलयाभ्यासवशाल्लयाभिमुखं भवेत्तदा निद्राशेषाजीर्णवह्वशनश्रमाणां लयकारणानां निरोधेन चित्तं सम्यक्प्रबोधयेदुत्थानप्रयत्नेन । यदि पुनरेवं प्रबोध्यमानं दैनंदिनप्रबोधाभ्यासवशात्कामभोगयोर्विक्षिप्तं स्यात्तदा वैराग्यभावनया तत्त्वसाक्षात्कारेण च पुनः शमयेत् । एवं पुनः पुनरभ्यस्थतो लयात्संबोधितं विषयेभ्यश्च व्यावर्तितं, नापि समप्राप्तमन्तरालावस्थं चित्तं स्तब्धीभूतं, सकषायं रागद्वेषादिप्रबलवासनावशेन स्तब्धीभावाख्येन कषायेण दोषेण युक्तं विजानीयात्समाहिताञ्चित्ताद्विवेकेन जानीयात् । ततश्च नेदं समाहितमित्यवगम्य लयविक्षेपाभ्यामिव कषायादपि चित्तं निरन्ध्यात् । ततश्च लयविक्षेपकषायेषु परिह्रतेषु परिशेषाच्चित्तेन समं ब्रह्म प्राप्यते । तच्च समप्राप्तं चित्तं कषायलयभ्रान्त्या न चालयेत् , विषयाभिमुखं न कुर्यात् । किं तु धृतिगृहीतया बुद्धया लयकषायप्राप्ते-


  1. छ. नुस्मृत्य प'।
  2. ङ, छ. तस्य तस्या ।