पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
[अ०६क्ष्लो ०२६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


त्तश्चिदाकारो वारयितुं न शक्यते । ततो निरोधसमाधिना निवृत्तिकेन चित्तेन संस्कारमात्रशेषतयाऽतिसूक्ष्मत्वेन निरुपाधिकचिदात्ममात्राभिमुखत्वादत्तिं विनैव निर्विघ्नमात्माऽनुभूयते । तदेतदाह-आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेदिति । आत्मनि निरुपाधिके प्रतीचि संस्था समा[१]प्तिर्यस्य तदात्मसंस्थं सर्वप्रकारवृत्तिशून्यं स्वभावसिद्धात्माकारमात्रविशिष्टं मनः कृत्वा धृतिगृहीतया विवेकबुद्ध्या संपाद्यासंप्रज्ञातसमाधिस्थः सन्किचिदपि अनात्मानमात्मानं वा न चिन्तयेत् , न वृत्त्या विषयी कुर्यात् । अनात्माकारवृत्तौ हि व्युत्थानमेव स्यात् । आत्माकारवृत्तौ च संप्रज्ञातः समाधिरित्यसंप्रज्ञातसमाधिस्थैर्याय कामपि चित्तवृत्तिं नोत्पादयेदित्यर्थः ॥ २५ ॥

 श्री० टी०-यदि तु प्राक्तनकर्मसंस्कारेण मनो विचलेत्तर्हि धारणया स्थिरी कुर्यादित्याह-शनैरिति । धृतिर्धारणा तया गृहीतया वशीकृतया बुद्ध्याऽऽत्मसंस्थमात्मन्येव सम्यस्थितं निश्चलं मनः कृत्वोपरमेत् । तच्च शनैः शनैरभ्यासक्रमेण न तु सहसा । उपरमस्वरूपमाह-न किंचिदपि चिन्तयेत् , निश्चले मनसि स्वयमेव प्रकाशमानपरमानन्दस्वरूपो भूत्वाऽऽत्मध्यानादपि निवर्तेतेत्यर्थः ॥ २५ ॥

 म० टी०-एवं निरोधसमाधिं कुर्वन्योगी-

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ॥
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥

 शब्दादीनां चित्तविक्षेपहेतूनां मध्ये यतो यतो यस्माद्यस्मानिमित्ताच्छब्दादेर्विषयाद्रागद्वेषादेश्च चञ्चलं विक्षेपाभिमुखं सन्मनो निश्चरति विक्षिप्तं सद्विषयाभिमुखी प्रमाणविपर्ययविकल्पस्मृतीनामन्यतमामपि समाधिविरोधिनीं वृत्तिमुत्पादयति, तथा लयहेतूनां निद्राशेषबह्वशनश्रमादीनां मध्ये यतो यतो निमित्तादस्थिरं लयाभिमुखं सन्मनो निश्चरति लीनं सत्समाधिविरोधिनीं निद्राख्यां वृत्तिमुत्पादयति, ततस्ततो विक्षेपनिमि- त्ताल्लयनिमित्ताच्च नियम्यैतन्मनो निवृत्तिकं कृत्वाऽऽत्मन्येव स्वप्रकाशपरमानन्दघने वशं नयेन्निरुन्ध्यात्, यथा न विक्षिप्येत न वा लीयेतेति । एवकारोऽनात्मगोचरत्वं समाधेर्वारयति । एतच्च विवृतं गौडाचार्यपादैः-

" उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः ।
सुप्रसन्नं लये चैव यथा कामो लयस्तथा ॥
दुःखं सर्वमनुस्मृत्व कामभोगान्निवर्तयेत् ।
अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति ॥
लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।


  1. ग. ज. झ.°माधिर्य ।