पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६ क्ष्लो ०२३]
२०७
श्रीमद्भगवद्गीता।


विद्याज्जानीयान्न तु योगशब्दानुरोधात्कंचित्संबन्ध प्रतिपद्यतेत्यर्थः । तथा च भगवान्पतञ्जलिरसूत्रयत् “योगश्चित्तवृत्तिनिरोधः" इति । "योगो भवति दुःखहा" इति यत्प्रागुक्तं तदेतदुपसंहृतम् । एवंभूते योगे निश्चयानिर्वेदयोः साधनत्वविधानायाऽऽह-स यथोक्तफलो योगो निश्चयेन शास्त्राचार्यवचनतात्पर्यविषयोऽर्थः सत्य एवेत्यध्यवसायेन योक्तव्योऽभ्यसनीयः । अनिर्विण्णचेतसा, एतावताऽपि कालेन योगो न सिद्धः किमतः परं कष्टमित्यनुतापो निर्वेदस्तद्रहितेन चेतसा, इह जन्मनि जन्मान्तरे वा सेत्स्यति कि त्वरयेत्येवं धैर्ययुक्तेन मनसेत्यर्थः । तदेतगौडपादा उदाजहरु:-

"उत्सेक उदधेर्यद्वत्कुशाग्रेणकबिन्दुना ।
मनसो निग्रहस्तद्वद्भवेदपरिखेदतः" इति ॥

 क उत्सेचनं शोषणाध्यवसायेन जलोद्धरणमिति यावत् । अत्र संप्रदायविद xxxxxx-कस्यचित्किल पक्षिणोऽण्डानि तीरस्थानि तरङ्गवेगेन(ण) xxxxxx समद्रं शोषयिष्याम्येवेति प्रवृत्तः स्वमुखाग्रेणैकैकं जलबिन्दुमुपरि भिः पक्षिभिर्बन्धुवगैर्यमाणोऽपि नैवोपरराम । यदृच्छया अत्यस्मिञ्जन्मनि जन्मान्तरे वा येन केनाप्युपायेन समुद्रं शोषयिष्याम्येक ANARAN देवानुकूल्यात्कृपालुर्नारदो गरुडं तत्साहाय्याय प्रेषयामास समुद्रस्त्व वामवमन्यत इति वचनेन । ततो गरुडपक्षवातेन शुष्यन्समुद्रो भीतस्तान्यPE"तस्म पक्षिणे प्रददाविति । एवमखेदेन मनोनिरोधे परमधर्मे प्रवर्तमानं योगिनमीश्वरोऽनुगृह्णाति । ततश्च पक्षिण इव तस्याभिमतं सिध्यतीति भावः ॥ २३ ॥

 श्री टी य एवंमतोऽवस्थाविशेषस्तमाह तमित्यर्धेन-दुःखशब्देन दुःखमि[१]जोगेन स्पर्शमात्रेणापि वियोगो यस्मिआत् । परमात्मना क्षेत्रज्ञस्य योजनं यांगः । यद्वा कातरशब्दवविरुद्धलक्षणया योग उच्यते । कर्मणि तु योगशब्दस्तदुपायत्वादौपचारिक एवेति भावः । यस्मादेवं महाफलो योगस्तस्मात्स एव यत्नतोऽभ्यसनीय इत्याह-स इति सार्धेन । स योगो निश्चयेन शास्त्राचार्योपदेशजनितेन योक्तव्योऽभ्यसनीयः । यद्यपि शीघ्रं न सिध्यति तथाऽपि अनिर्विण्णेन निर्वेदरहितेन चेतसा योक्तव्यः । दुःखबुद्धया प्रयत्नशैथिल्यं निर्वेदः ॥ २३ ॥

 म०टी०--किं च कृत्वा योगोऽभ्यसनीयः-


  1. ख. ग. घ, ङ, च. छ. ज. "मिश्रल