समाधौ सुखमनुभवामीति सविकल्पवृत्तिरूपा प्रज्ञा सुखास्वादः । तं व्युत्थानरूपत्वेन
समाधिविरोधित्वाद्योगी न कुर्यात् । अत एवैतादृश्या प्रज्ञया सह सङ्गं परित्यजेत्तां निरुन्ध्यादित्यर्थः । निर्वृत्तिकेन तु चित्तेन स्वरूपसुखानुभवस्तैः प्रतिपादितः-
"स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम्" इति । स्पष्टं चैतदुपरिष्टात्करिष्यते ॥२१॥
श्री०टी०--आत्मन्येव तोषे हेतुमाह-सुखमिति । यत्र यस्मिन्नवस्थाविशेषे यत्तत्किमपि निरतिशयमात्यन्तिकं नित्यं सुखं वेत्ति । ननु तदा विषयेन्द्रियसंबन्धाभावात्कुतः सुखं स्यात्तत्राऽऽह-अतीन्द्रियं विषयेन्द्रियसंबन्धातीतं केवलं बुद्धयैवाऽऽत्माकारतया ग्राह्यम् । अत एव च यत्र स्थितः संस्तत्त्वत आत्म[१]स्वरूपान्नैव चलति ॥ २१ ॥
म०टी०-यत्र न चैवायं स्थितश्चलति तत्त्वत इत्युक्तमुपपादयति-
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ॥ |
यं च निरतिशयात्मकसुखव्यञ्जकं निवृत्तिकचित्तावस्थाविशेषं लब्ध्वा संतताभ्यासपरिपाकेन(ण) संपाद्यापरं लाभं ततोऽधिकं न मन्यते । कृतं कृत्यं प्राप्तं प्रापणीय[२]मित्यात्मलाभान्न परं विद्यत इति स्मृतेः । एवं विषयभोगवासनया समाधेर्विचलनं नास्तीत्युक्त्वा शीतवातमशकाद्युपद्रवनिवारणार्थनपि तन्नास्तीत्याह-यस्मिन्परमात्मसुखमये निर्वृत्तिकचित्तावस्थाविशेषे स्थितो योगी गुरुणा महता शस्त्रनिपातादिनिमित्तेन महताऽपि दुःखेन न विचाल्यते किमुत क्षुद्रणेत्यर्थः ॥ २२ ॥
श्री०टी०-अचल[३] त्वमेवोपपादयति----यमिति । यमात्मसुखरूपं लाभं लब्ध्वा ततोऽधिकमपरं लामं न मन्यते तस्यैव निरतिशयसुखत्वात् । यस्मिंश्च स्थि ताऽपि शीतोष्णादिदुःखेन न विचाल्यते नाभिभूयते । एतेनानिष्टनिवृत्तिफलेनापि योगस्य लक्षणमुक्तं द्रष्टव्यम् ॥ २२ ॥
तं विद्याहुःखसंयोगवियाग योगसंज्ञितम् ॥ |
म०टी०-यत्रोपरमत इत्यारभ्य बहुभिर्विशेषणैर्यो निर्वृत्तिकः परमानन्दाभिव्यञ्जकश्चित्तावस्थाविशेष उक्तस्तं चित्तवृत्तिनिरोधं चित्तवृत्तिमयसर्वदुःखविरोधित्वेन दुःखवियोगमेव सन्तं योगसंज्ञितं वियोगशब्दार्हमपि विरोधिलक्षणया योगशब्दवाच्यं