पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[१०६ क्ष्लो ०२१]
२०५
श्रीमद्भगवद्वीता।

सर्ववृत्तिनिरोधरूपेण परिणतं भवति । यत्र च यस्मिंश्च परिणामे सति आत्मना रजस्तमोनभिभूतशुद्धसत्त्वमात्रेणान्तःकरणेनाऽऽत्मानं प्रत्यक्चैतन्यं परमात्माभिन्नं सच्चिदानन्दघनमनन्तमद्वितीयं पश्यन्वेदान्तप्रमाणजया वृत्त्या साक्षात्कुर्वन्नात्मन्येव परमानन्दघने तुष्यति, न देहेन्द्रियसंघाते न वा तद्भोग्येऽन्यत्र । परमात्मदर्शने सत्यतुष्टिहेत्वभावात्तुष्यत्येवेति वा । तमन्तःकरणपरिणाम सर्वचित्तवृत्तिनिरोधरूपं योग विद्या- दिति परेणान्वयः । यत्र काल इति तु व्याख्यानमसाधु तच्छब्दानन्वयात् ॥ २० ॥

 श्री०टी०-"यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव " इत्यादौ कमैंव योगशब्देनोक्तं, “ नात्यनतस्तु योगोऽस्ति" इत्यादौ तु समाधिर्योगशब्देनोक्तः । तत्र मुख्यो योगः क इत्यपेक्षायां समाधिमेव स्वरूपतः फलतश्च लक्षयन्स एव मुख्यो इत्याह यत्रेति सार्धैस्त्रिभिः-यत्र यस्मिन्नवस्थाविशेषे योगाभ्यासेन एतं भवतीति योगस्य स्वरूपलक्षणमुक्तम् । तथाच पातञ्जलं सूत्रम्" इति । इष्टप्राप्तिलक्षणेन फलेन तमेव लक्षयति । यत्र यस्मिन्नवस्थान माऽऽत्मानमेव पश्यति न तु देहादि, पश्यंश्वाऽऽत्म- न्येव तुष्यति जां यच्छब्दानां तं योगसंक्षितं विद्यादिति चतुर्थेनान्वयः ॥ २० ॥

 म०टी०-आत्मन्येव तोष

मुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ॥
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥२१॥

 पत्र यस्मिन्नवस्थाविशेष आत्यन्तिकमनन्तं निरतिशयं ब्रह्मस्वरूपमतीन्द्रियं विषयेगोमाहितया सत्त्वमात्रवाहिन्या ग्राह्यं विद्वांस्तत्त्वत आत्मस्वरूपान्नैव । अत्राऽऽत्यन्तिकमिति ब्रह्मसुखस्वरूपकथनम् । अतीन्द्रियमिति विषयसुखव्यावृत्तिः , तस्य विषयेन्द्रियसंयोगसा- पेक्षत्वात् । बुद्धिग्राह्यमिति सौषुप्तसुखव्यावृत्तिः सुषुप्तौ बुद्धीर्लीनत्वात् , समाधौ निर्वृत्तिकायास्तस्याः सत्त्वात् । तदुक्तं गौडपादै:-" लीयते तु सुषुप्तौ तन्निगृहीतं न लीयते " इति । तथा च श्रूयते-

"समाधिनिर्धूतमलस्य चेतसो निवेशितस्याऽऽत्मनि यत्सुखं भवेत् ।
न शक्यते वर्णयितुं गिरा तदा यदेतदन्तःकरणेन गृह्यते " इति ॥

 अन्तःकरणेन निरुद्धसर्ववृत्तिकेनेत्यर्थः । वृत्त्या तु सुखास्वादनं गौडाचार्यैस्तत्र प्रतिषिद्धम्-" नाऽऽस्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् " इति । महदिदं