पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
[अ०६क्ष्लो०१९-२०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


कः, यः सर्वकामेम्यो निःस्पृहः, निर्गता दोषदर्शनेन सर्वेभ्यो दृष्टादृष्टविषयेभ्यः कामेभ्यः स्पृहा तृष्णा यस्येति परं वैराग्यमसंप्रज्ञातसमाधेरन्तरङ्गं साधनमुक्तम् । तथा च व्याख्यातं प्राक् ॥ १८॥

 श्री०टी०-कदा निष्पन्नयोगः पुरुषो भवतीत्यपेक्षायामाह-यदेति। विनियतं विशेषेण निरुद्धं सञ्चित्तमात्मन्येव यदा निश्चलं तिष्ठति । किं च सर्वकामेभ्य ऐहिकामुष्मिकभोगेभ्यो निःस्पृहो विगततृष्णो भवति तदा युक्तः प्राप्तयोग इत्युच्यते॥१८॥

 म०टी०-समाधौ निवृत्तिकस्य चित्तस्योपमानमाह-

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ॥
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९ ॥

 दीपचलनहेतुना वातेन रहिते देशे स्थितो दीपो यथा चलनडे चलति सोपमा स्मृता स दृष्टान्तश्चिन्तितो योगज्ञैः । कस्य, ज्ञातसमाधिमतोऽभ्यासपाटवाद्यतचित्तस्य निरुद्धसर्वधि निरोधभूमौ युञ्जतोऽनुतिष्ठतो य आत्माऽन्तः सत्त्वोद्वेकेण प्रकाशकतया च निश्चलो दीपो दृष्टान्त ना योगं युञ्जत इति व्याख्याने दार्ष्टान्तिकालामः सर्वावस्थस्यापित सर्वदाऽऽत्माकारतयाऽऽत्मपदवैयर्थ्यं च । न हि योगेनाऽऽत्माकारता चित्तस्य संपाद्यते, किं तु स्वत एवाऽऽत्माकारस्य सतोऽनात्माकारता निवर्त्यत इति । तस्माद्दार्ष्टान्तिकप्रतिपादनार्थमेवाऽऽत्मपदम् । यतचित्तस्येति[१] भावपरो निर्देशः कर्मधारयो वा यतस्य चित्तस्येत्यर्थः ॥ १९ ॥

 श्री०टी०-आत्मैक्याकारतयाऽवस्थितस्य चित्तस्योपमानमाह-यथेति । वातशून्ये देशे स्थितो दीपो यथा नेङ्गते न विचलति सोपमा दृष्टान्त योगं युञ्जतोऽभ्यसतो योगिनो तया च चित्तं तद्वत्तिष्ठतीत्यर्थः

 म०टी०-एवं सामान्य पानराधसमाधि विस्तरेण विवरीतु- मारमतेयत्रोपरमते-----

यत्रोपरमते चित्तं निरुद्धं योगसेवया ॥
यत्र चैवाऽऽत्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति॥२०॥

यत्र यस्मिन्परिणामविशेषे योगसेवया योगाभ्यासपाटवेन जाते सति चित्तं निरुद्धमेकविषयकवृत्तिप्रवाहरूपामेकाग्रतां त्यक्त्वा निरिन्धनाग्निवदुपशाम्यन्निर्वृत्तिकतया


  1. ग. ’ति । यतचितस्य भावो यतचित्तत्वं यतं च तम्चित्तं च यतचित्तं भां ।