पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो ०१७-१८]
२०३
श्रीमद्भगवद्गीता।


 म०टी०-एवमाहारादिनियमविरहिणो योगव्यतिरेकमुक्त्वा तन्नियमवतो योगान्वयमाह-

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ॥
युक्तस्वनावबोधस्य योगो भवति दुःखहा ॥ १७ ॥

 आह्नियत इत्याहारोऽन्नं विहरणं विहारः पाद[१]क्रमः, तौ युक्तौ नियतपरिमाणौ यस्य, तथाऽन्येष्वपि प्रणवजपोपनिषदावर्तनादिषु कर्मसु युक्ता नियतकाला चेष्टा यस्य, तथा स्वप्नो निद्रा, अवबोधो जागरणं तौ युक्तौ नियतकालौ यस्य तस्य योगो भवति साधनपाटवात्समाधिः सिध्यति नान्यस्य । एवं प्रयत्नविशेषेण संपादितो योगः किंफल इति तत्राऽऽह-दुःखहेति। सर्वसंसारदुःखकारणाविद्योन्मूलनहेतुब्रह्मवि'द्योत्पादकत्वात्समूलसर्वदुःखनिवृत्तिहेतुरित्यर्थः । अत्राऽऽहारस्य नियतत्वम्-

" अर्धमशनस्य सव्यञ्जनस्य तृतीयमुदकस्य तु ।
वायोः संचारणार्थं तु चतुर्थमवशेषयेत् "

 इत्यादि प्रागुक्तम् । विहारस्य नियतत्वं योजनान्न परं गच्छेदित्यादि । कर्मसु चेष्टाया नियतत्वं वागादिचापलपरित्यागः । रार्वेविभागत्रयं कृत्वा प्रथमान्त्ययोर्जागरणं मध्ये स्वपनमिति स्वप्नावबोधयोर्नियतकालत्वम् । एवमन्येऽपि योगशास्त्रोक्ता नियमा द्रष्टव्याः ॥ १७ ॥

 श्री०टी०-तर्हि कथंभूतस्य योगो भवतीत्यत आह---युक्तेति । युक्तो नियत आहारो विहारश्च गतिर्यस्य, कर्मसु कार्येषु युक्ता नियतैव चेष्टा यस्य, युक्ती नियतौ स्वप्नावबोधौ निद्राजागरौ यस्य तस्य दुःखनिवर्तको योगो भवति सिध्यति ॥ १७ ॥

 म०टी०--एवमेकाग्रभूमौ संप्रज्ञातं समाधिमभिधाय निरोधभूमावसंप्रज्ञातं समाधि वक्तुमुपक्रमते-

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ॥
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥

 यदा यस्मिन्काले परवैराग्यवशाद्विनियतं विशेषेण नियतं स[२]र्ववृत्तिशून्यतामापादितं चित्तं विगतरजस्तमस्कमन्तःकरणसत्त्वं स्वच्छत्वात्सर्व विषयाकारग्रहणप्तमर्थमपि सर्वतोनिरुद्धवृत्तिकत्वादात्मन्येव प्रत्यक्चिति अनात्मानुपरक्ते वृत्तिराहित्येऽपि स्वतःसिद्धस्याऽऽत्माकारस्य वारयितुमशक्यत्वाच्चितेरेव प्राधान्यान्यग्भूतं सदवतिष्ठते निश्चलं भवति, तदा तस्मिन्सर्ववृत्तिनिरोधकाले युक्तः समाहित इत्युच्यते ।


  1. क. ङ, छ. ज. झ. अ.दनमः ।
  2. क. ख. घ. च. छ. ज.