पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०१५]
१९९
श्रीमद्भगवद्गीता।


संस्काराणामभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति । ततः समाधिरुपतिष्ठते । ततः समाधिना प्रज्ञा । ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो वर्धते । ततश्च प्रज्ञा । ततश्च संस्कारा इति । ननु भवतु व्युत्थानसंस्काराणामतत्त्वविषयप्रज्ञाजनितानां तत्त्वमात्रविषयसंप्रज्ञातसमाधिप्रज्ञाप्रमवैः संस्कारैः प्रतिबन्धस्तेषां तु संस्काराणां प्रतिबन्धकामावादेकाग्रभूमावेव सबीजः समाधिः स्यान्न तु निर्बीजो निरोधभूमाविति तत्राऽऽह-" तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ तस्य संप्रज्ञातस्य समाधेरेकाग्रभूमिजस्य, अपिशब्दात्क्षिप्तमूढविक्षिप्तानामपि निरोधे योगिप्रयत्विशेषेण विलये सति सर्वनिरोधात्समाधेः समाधिजस्य संस्कारस्यापि निरोधान्निर्बीजो निरालम्बनोऽसंप्रज्ञातसमाधिर्भवति । स च सोपायः प्राक्सूत्रितः "विरामप्रत्ययाभ्यासपरशेषोऽन्यः" इति। विरम्यतेऽनेनेति विरामो वितर्क विचारानन्दास्मितादिरूपया प्रत्ययः कारणं परं वैराग्यमिति यावत् । विरामश्चासौ प्रत्यय। तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनं, तदेव पूर्व कारण कोषः सर्वथा निवृत्तिकोऽन्यः पूर्वोक्तात्सबीजाद्विलक्षणो निर्बीजोऽस असंप्रज्ञातस्य हि समानुपायावुक्तावभ्यासो वैराग्यं च । “य न निरालम्बनसमाधिहेतुत्वं घटत इति निरालम्बनं परं वैराग्यमय यासस्तु संप्रज्ञातसमाधिद्वारा प्रणाड्योपयुज्यते । तदुक्तं " त्रयमन्तरक की ध्यानसमाधिरूपं साधन- त्रयं यमनियमासनप्राणायामप्रत्याहाररूपसाधनपर " सबीजस्य समाधेरन्तरङ्गं साधनम् । साधनकोटौ च समाधिशब्देनाभ्यास एवोच्यते । मुख्यस्य समाधेः साध्यत्वात् । “ तदपि बहिरङ्गं निर्बीजस्य " निर्बीजस्य तु समाधेस्तदाप त्रयं बहिरङ्गं परम्परयोपकारि तस्य तु परं वैराग्यमेवान्तरङ्गमित्यर्थः । अयमपि द्विविधो भवप्रत्यय देहाना सानन्दाना दोषधिविशेषान्मन्त्र आत्मानात्मविवेका. भावरूपः प्रत्ययः कारणं यस्य स तथा । जन्ममात्रहेतुको वा पक्षिणामाकाशगमनवत्, पुनः संसारहेतुत्वान्मुमुक्षुभिर्हेय इत्यर्थः । " श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ” जन्मौषधिमन्त्रतपःसिद्धव्यतिरिक्तानामात्मानात्मविवेकदर्शिनां तु यः समाधिः स श्रद्धादिपूर्वकः । श्रद्धादयः पूर्व उपाया यस्य स तथा, उपायप्रत्यय इत्यर्थः । तेषु श्रद्धा योगविषये चेतसः प्रसादः । सा हि जननीव योगिनं पाति । ततः श्रद्दधानस्य विवेकार्थिनो वीर्यमुत्साह उपजायते । समुपजातवीर्यस्य पाश्चात्त्यासु भूमिषु स्मृतिरुत्पद्यते । तत्स्मरणाच्च चित्तमनाकुलं सत्समाधीयते । समाधिरत्रैकाग्रता। समाहितचित्तस्य प्रज्ञा भाव्यगोचरा विवेकेन जायते । तदभ्यासात्पराच्च वैराग्याद्भवत्यसं-