अन्वयिकारणत्वाविवक्षायां तु पुरुषोऽपि सूक्ष्मो भवत्येवेति द्रष्टव्यम् । ता एवं सबीजः समाधिः, ताश्चतस्रः समापत्तयो ग्राह्येण बीजेन सह वर्तन्त इति सबीजः समाधिर्वितर्कविचारानन्दास्मितानुगमात्संप्रज्ञात इति प्रागुक्तः । स्थूलेऽर्थे सवितर्को निर्वितर्कः । सूक्ष्मेऽर्थे सविचारो निर्विचार इति । तत्रान्तिमस्य फलमुच्यते--" निर्विचारवैशारद्येऽध्यात्मप्रसादः " स्थूलविषयत्वे तुल्येऽपि सवितर्क शब्दार्थज्ञानविकल्प संकीर्णमपेक्ष्य तद्रहितस्य निर्विकल्पकरूपस्य निर्वितर्कस्य प्राधान्यं, ततः सूक्ष्मविषयस्य सविकल्पकप्रतिभासरूपस्य सविचारस्य, ततोऽपि सूक्ष्मविषयस्य निर्विकल्पकप्रतिभासरूपस्य निर्विचारस्य प्राधान्यम् । तत्र पूर्वेषां त्रयाणां निर्विचारार्थन विचारफलेनैव फलवत्त्वं, निर्विचारस्य तु प्रकृष्टाभ्यासबलाद्वैशारद्ये रजा सत्त्वोद्रेके सत्यध्यात्मप्रसादः क्लेशवासनारहितस्य चित्तस्य भूतार्थति स्फुटः प्रज्ञालोकः प्रादुर्भवति । तथा च भाष्यम्----
"प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो |
"ऋतंभरा तत्र प्रज्ञा समाहितचित्तस्य योगिनो या प्रज्ञा जायते सतभरा । समर्ति न तत्र विपर्यासगन्धोऽप्यस्तीति यौगिक्येवेयं समानु योगः । तथा च भाष्यम----
आगमेनानुमान
सा तु "श्रुतान
......रानागमविज्ञान तत्सामान्यविषयमेव । न हि विशेषण संह कस्यचिच्छब्दस्य संगतिग्रहीतुं शक्यते । तथाऽनुमानं सामान्यविषयमेव । न हि विशेषेण सह कस्यचिद्व्याप्तिर्ग्रहीतुं शक्यते । तस्माच्छ्रुतानुमानविषयो न विशेषः कश्चिदस्ति । न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति । किं तु समाधिप्रज्ञानिर्ग्राह्य एक स विशेषों भवति भूतसूक्ष्मगतो वा पुरुषगतो वा। तस्मान्निर्विचारवैशारद्यसमुद्भवायां श्रुतानुमानविलक्षणायां सूक्ष्मव्यवहितविप्रकृष्टसर्वविशेषविषयायामृतंभरायामेव प्रज्ञायां योगिना महान्प्रयत्न आस्थेय इत्यर्थः । ननु क्षिप्तमूढविक्षिप्ताख्यव्युत्थानसंस्काराणामेकाग्रतायामपि
सवितर्कनिर्वितर्कसविचारजानां संस्काराणां सद्भावात्तैश्चाल्यमानस्य चित्तस्य कथं निर्विचारवैशारद्यपूर्वकाध्यात्मप्रसादलभ्यर्तम्भरा प्रज्ञा प्रतिष्ठिता स्यादत आह-" तज्जः
संस्कारोऽन्यसंस्कारप्रतिबन्धी " तयर्तम्भरया प्रज्ञया जनितो यः संस्कारः स तत्त्वविषयया प्रज्ञया अनितत्वेन बलवत्त्वादन्यान्व्युत्थानजान्समाधिजांश्च संस्कारानतत्त्वविषयप्रज्ञाजनितत्वेन दुर्बलान्प्रतिबध्नाति स्वकार्याक्षमान्करोति नाशयतीति वा । तेषां