पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०१०-१२]
१९३
श्रीमद्भगवद्गीता।


योगी युञ्जीत सततमात्मानं रहसि स्थितः ॥
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥१०॥

 योगी योगारूढ आत्मानं चित्तं सततं निरन्तरं युञ्जीत क्षिप्तमूढविक्षिप्तभूमिपरित्यागैनैकाग्रनिरोधभूमिभ्यां समाहितं कुर्यात् । रहसि गिरिगुहादौ योगप्रतिबन्धकदुर्जनादिवर्जिते देशे स्थित एकाकी त्यक्तसर्वगृहपरिजनः संन्यासी, चित्तमन्तःकरणमात्मा देहश्च संयतौ योगप्रतिबन्धकव्यापारशून्यौ यस्य स यतचितात्मा । यतो निराशीर्वैराग्यदार्ढ्येन विगततृष्णः । अत एव चापरिग्रहः शास्त्राभ्यनुज्ञातेनापि योगप्रतिबन्धकेन परिग्रहेण शून्यः ॥ १० ॥

 श्री० टी०-~-एवं योगारूढस्य लक्षणमुक्त्वेदानीं तस्य साङ्गं योगं विधत्ते योगीत्यादिना स योगी परमो मत इत्यन्तेन ग्रन्थेन-योगीति । योगी योगारूढ आत्मानं मनो युञ्जीत समाहितं कुर्यात्सततं निरन्तरं रहसि एकान्ते स्थितः सन्नेकाकी सङ्गशून्यो यतं संयतं चित्तमात्मा देहश्च यस्य निराशीर्निराकाङ्क्षोऽपरिग्रहः परिग्रहशून्यश्च ॥ १० ॥

 म०टी०-तत्राऽऽसननियम दर्शयन्नाह द्वाभ्याम् -

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥

 शुचौ स्वभावतः संस्कारतो वा शुद्धे जनसमुदायरहिते निर्भये गङ्गातटगुहादौ देशे . समे स्थाने प्रतिष्ठाप्य स्थिरं निश्चलं नात्युच्छ्रितं नात्युच्चं नाप्यतिनीचं, चैलाजिनकुशोत्तरं पै दुवस्त्रम् , अजिनं मृदु व्याघ्रादिचर्म ते कुशेभ्य उत्तरे उपरितने यस्मिंस्तत्, आस्यतेऽस्मिन्नित्यासनं, कुशमयवृष्युपरि मृदुचर्म तदुपरि मृदुवस्त्ररूपमित्यर्थः । तथा चाऽऽह भगवान्पतञ्जलिः- " स्थिरसुखमासनम् " इति । आत्मन इति परासनव्यावृत्त्यर्थं तस्यापि परेच्छानियमाभावेन योगविक्षेपकरत्वात् ॥ ११ ॥

 श्री०टी०-आसननियमं दर्शयन्नाह द्वाभ्याम्-शुचाविति । शुद्धे स्थान आत्मनः स्वस्थाऽऽसनं स्थापयित्वा। कीदृशम् , स्थिरमचलं नातीवोन्नतं, न चातिनीचं,[१] चैलं वस्त्रमजिनं व्याघ्रादिचर्म चैलाजिने कुशेभ्य उत्तरे यस्मिन् , कुशानामुपरि चर्म तदुपरि वस्त्रमास्तीर्येत्यर्थः ॥ ११ ॥

 म०. टी०-एवमासनं प्रतिष्ठाप्य किं कुर्यादिति तत्राऽऽह-

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः॥
उपविश्याऽऽसने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२॥


  1. क. ग. म. ङ्को निराहारो वाऽप।