पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
[अ०६ क्ष्लो०९]
मधुसूदनसरस्वतीश्रीधरस्वामितटीकाभ्यां समेता-


 ज्ञानं शास्त्रोक्तानां पदार्थानामौपदेशिकं ज्ञानं विज्ञानं तदप्रामाण्यशङ्कानिराकरणफलेन विचारेण तथैव तेषां स्वानुभवनापरोक्षीकरणं ताभ्यां तृप्तः संजातालंप्रत्यय आत्मा चित्तं यस्य स तथा । कूटस्थो विषयसंनिधावपि विकारशून्यः । अत एव विजितानि रागद्वेषपूर्वकाद्विषयग्रहणाव्द्यावर्तितानीन्द्रियाणि येन सः । अत एव हेयोपादेयबुद्धिशून्यत्वेन समानि मृत्पिण्डपाषाणकाञ्चनानि यस्य सः । योगी परमहंसपरिव्राजकः परवैराग्ययुक्तो योगारूढ इत्युच्यते ॥ ८ ॥

 श्री. टी-योगारूढस्य लक्षणं श्रैष्ठ्यं [१]चोक्त[२] मुपसंहरति--ज्ञानविज्ञानतृप्तात्मेति । ज्ञानमौपदेशिकं विज्ञानमपरोक्षानुभवस्ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य । अतः कूटस्थो निर्विकारः । अत एव विजितानीन्द्रियाणि येन । अत एव समानि लोष्टादीनि यस्य मृत्पिण्डपाषाणसुवर्णेषु हेयोपादेयबुद्धिशून्यः स युक्तो योगारूढ इत्युच्यते ॥८॥

 श्री टी.-सुह्रन्मित्रादिषु समबुद्धिस्तु सर्वयोगिश्रेष्ठ इत्याह-

सुहृन्मित्रार्युदासीनमध्यस्थद्देष्यबन्धषु ॥
साधुष्वपि च पापेषु समः

 सुहत्प्रत्युपकारमनपेक्ष्य पूर्वस्नेहं संबन्ध च विनेवोपकर्ता । मित्रं स्नेहेनोपकारकः । अरिः स्वकृतापकारमनपेक्ष्य स्वभावक्रौर्येणापकर्ता । उदासीनो विवदमानयोरुभयोरप्युपेक्षकः । मध्यस्थो विवदमानयोरुभयोरपि हितैषी । द्वेष्यः स्वकृतापकारमपेक्ष्यापकर्ता । बन्धुः संबन्धेनोपकर्ता । एतेषु साधुषु शास्त्रविहितकारिषु पापेषु शास्त्रप्रतिषिद्धकारिष्वपि । चकारादन्येषु च सर्वेषु समबुद्धिः कः कीदृक्कर्मेत्यव्यापृतबुद्धिः सर्वत्र रागद्वेषशून्यो विशिष्यते सर्वत उत्कृष्टो भवति । विमुच्यत इति वा पाठः ॥ ९ ॥

 श्री० टी०-~सुहृन्मित्रादिषु समबुद्धियुक्तस्तु ततोऽपि श्रेष्ठ इत्याह---सुहृदिति । सहृत्स्वभावेनैव हिताशंसी । मित्रं स्नेहवशेनोपकारकः । अरिर्घातकः । उदासीनो विवदमानयोरुभयोरप्युपेक्षकः । मध्यस्थो विवदमानयोरुभयोरपि हिताशंसी। द्वेष्यो द्वेषविषयः । बन्धुः संबन्धी । साधवः सदाचाराः । पापा दुराचाराः । एतेषु समा [३]रागद्वेषादिशून्या बुद्धिर्यस्य स तु विशिष्टः ॥ ९ ॥

 म.टी.-एवं योगारूढस्य लक्षणं फलं चोक्त्वा तस्य साङ्गं योगं विधत्ते योगीत्यादिभिः स योगी परमो मत इत्यन्तैस्त्रयोविंशत्या श्लोकैः । तत्रैवमुत्तमफलप्राप्तये-----


  1. ख. ग. घ. ङ, छ. ज. चोपपायो ।
  2. क. म. मुपपाद्योप।
  3. ख, ग, घ, इ. च. छ. ज. झ. द्वेषशू।