पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
[अ०५क्ष्लो०२९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


नासामध्य एव द्वावपि यथा चरतस्तथा मन्दाभ्यामुच्छासनिःश्वासाभ्यां समौ कृत्वेति ॥ २७॥

 श्री०टी०-यतेति । अनेनोपायेन यताः संयता इन्द्रियमनोबुद्धयो यस्य, मोक्ष एव परमयनं प्राप्यं यस्य । अत एव विगता इच्छाभयक्रोधा यस्य । य एवंभूतो मुनिः स सदा जीवन्नपि मुक्त एवेत्यर्थः ॥ २८ ॥

 म०टी०-एवं योगयुक्तः किं ज्ञात्वा मुच्यत इति [१]तदाह-

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ॥
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥२९॥

इति श्रीमहाभारते शंतसाहस्यां संहितायां वैयासि-
क्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-
वादे संन्यासयोगो नाम पञ्च-
मोऽध्यायः ॥ ५॥

 म०टी०-सर्वेषां यज्ञानां तपसां च कर्तृरूपेण देवतारूपेण च भोक्तारं भोगकर्तारं पालकमिति वा । "भुज पालनाभ्यवहारयोः" इति धातुः । सर्वेषां लोकानां महान्तमीश्वरं हिरण्यगर्भादीनामपि नियन्तारं, सर्वेषां प्राणिनां सुहृदं प्रत्युपकारनिरपेक्षतयोपकारिणं सर्वान्तर्यामिणं सर्वभासकं परिपूर्णसच्चिदानन्दैकरसं परमार्थसत्यं सर्वात्मानं नारायणं मां ज्ञात्वाऽऽत्मत्वेन साक्षात्कृत्य शान्ति सर्वसंसारोपरति मुक्तिमृच्छति प्राप्नोतीत्यर्थः । त्वां पश्यन्नपि कथं नाहं मुक्त इत्याशङ्कानिराकरणाय विशेषणानि । उक्तरूपेणैव मम ज्ञानं मुक्तिकारणमिति भावः ॥ २९ ॥

अनेकसाधनाभ्यासनिष्पन्नं हरिणेरितम् ।
स्वस्वरूपपरिज्ञानं सर्वेषां मुक्तिसाधनम् ॥ १॥

 इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीश्रीपादशिष्यश्रीमधु- सूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां स्वस्वरूपपरिज्ञानं नाम पञ्चमोऽध्यायः ॥ ५॥

 श्री० टी०-नन्वेवमिन्द्रियादिसंयममात्रेण कथं मुक्तः स्यान्न तावन्मात्रेण किं तु


  1. ख. च. झ. तनाऽऽह ।