पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० १क्ष्लो०२२-३३ ]
१५
श्रीमद्भगवद्गीता ।


वर्तमाने क्तः, कपिध्वजः पाण्डवो हनूमता महावीरेण ध्वजरूपतयाऽनुगृहीतोऽर्जुनः सर्वथा भयशून्यत्वेन युद्धाय गाण्डीवं धनुरुद्यम्य हृषीकेशमिन्द्रियप्रवर्तकत्वेन सर्वान्तः- करणवृत्तिज्ञं श्रीकृष्णमिदं वक्ष्यमाणं वाक्यमाहोक्तवान्न त्वविमृश्यकारितया स्वयमेव यत्किंचित्कृतवानिति परेषां विमृश्यकारित्वेन नीतिधर्मयाः कौशलं वदन्नविमृश्यकारितया परेषां राज्यं गृहीतवानसीति नीतिधर्मयोरभावात्तव जयो नास्तीति महीपत इति संबोधनेन सूचयति । तदेवार्जुनवाक्यमवतारयति-सेनयोरुभयोः स्वपक्षप्रतिपक्षभूतयोः संनिहितयोर्मध्ये मम रथं स्थापय स्थिरी कुर्विति सर्वेश्वरो नियुज्य[१] तेऽर्जुनेन[२] । अनेन किं हि भक्तानामशक्यं यद्भगवानपि तन्नियोगमनुतिष्ठतीति ध्रुवो जयः पाण्डवानामिति[३] सूचयति । नन्वेवं रथं स्थापयन्ते मामेते शत्रवो रथाच्यावयिष्यन्तीति भगवदाशङ्कामाशङ्कयाऽऽह–अच्युतेति । देशकालवस्तुष्वच्युतं त्वां को वा च्यावयितुमर्हतीति भावः । एतेन सर्वदा निर्विकारत्वेन नियोगनिमित्तः कोषोऽपि परिहृतः ॥ २० ॥२१॥

 श्री० टी०-एतस्मिन्समये श्रीकृष्णमर्जुनो विज्ञापयामासेत्याहाथेति चतुर्भिः-- व्यवस्थितन्युद्धोद्योगेन स्थितान् । कपिध्वजोऽर्जुनः ॥ २० ॥

 हृषीकेशमिति । तदेव वाक्यमाह-सेनयोरिति ॥ २१ ॥'

 म० टी०मध्ये रथस्थापनप्रयोजनमाह---

यावदैतान्निरीक्षेऽहं योद्धकामानवस्थितान् ॥
कैर्मया सह योद्धव्यमस्मिन्नणसमुद्यमे ॥ २२ ॥

 योद्भुकामान्न त्वस्माभिः सह संधिकामानवस्थितान्न तु भयात्प्रचलितान्, एतान्भीष्मद्रोणादीन्यावद्गत्वाऽहं निरीक्षितुं क्षमः स्यां तावत्प्रदेशे रथं स्थापयेत्यर्थः । यावदिति कालपरं वा। ननु त्वं योद्धा न तु युद्धप्रेक्षकः, अतस्तव किमेषां दर्शनेनेत्यत्राऽऽहकैरिति । अस्मिन्रणसमुद्यमे बन्धूनामेव परस्परं युद्धोद्योगे मया कैः सह योद्धव्यं मत्कर्तृकयुद्धप्रतियोगिनः के कैर्मया सह योद्धव्यं किंकर्तृकयुद्धप्रतियोग्यहमिति च महदिदं कौतुकमेतज्ज्ञानमेव मध्ये रथस्थापनप्रयोजनमित्यर्थः ॥ २२ ॥

 श्री० टी०-यावदेतानिति । ननु त्वं योद्धा न तु युद्धप्रेक्षकस्तत्राऽऽहं- कैरिति । कैः सह मया योद्धव्यम् ॥ २२ ॥

 म० टी०-ननु बन्धव एते परस्परं संधिं कारयिष्यन्तीति कुतो युद्धमित्याश- ङ्कयाऽऽह---

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ॥
धार्तराष्ट्रस्य दुर्बुद्धेयुद्धे प्रियचिकीर्षवः ॥ २३ ॥


  1. ज . 'तेऽने ।
  2. क. ख. ग. घ. इ. च. छ. ज. झ. ञ. °न । किं ।
  3. क. ‘ति । न ।