पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०५क्ष्लो०११-१२]
१६९
श्रीमद्भगवद्गीता।


पापेन बन्धहेतुतया पापिष्ठेन पुण्यपापात्मकेन कर्मणा न लिप्यते यथा पद्मपत्रमम्मसि स्थितमध्यम्भसा न लिप्यते तद्वत् ॥ १० ॥

 म० टी०-तदेव विवृणोति-

कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ॥११॥

 कायेन मनसा बुद्ध्येन्द्रियैरपि योगिनः कर्मिणः फलसङ्गं त्यक्त्वा कर्म कुर्वन्ति । कायादीनां सर्वेषां विशेषणं केवलैरिति । ईश्वरायैव करोमि न मम फलायेति ममताशून्यैरित्यर्थः । आत्मशुद्धये चित्त[१]शुद्धयर्थम् ॥ ११ ॥

 श्री० टी०-बन्धकत्वाभावमुक्त्वा मोक्षहेतुत्वं सदाचारेण दर्शयति-कायेनेति । कायेन स्नानादि, मनसा ध्यानादि, बुद्ध्या तत्त्वनिश्चयादि, केवलैः कर्माभिनिवेशरहितैरिन्द्रियैश्च श्रवणकीर्तनादिलक्षणं कर्मफलसङ्गं त्यक्त्वा चित्तशुद्धये कर्मयोगिनः कर्म कुर्वन्ति ॥ ११ ॥

 म. टी.-कर्तृत्वाभिमानसाम्येऽपि तेनैव कर्मणा कश्चिन्मुच्यते कश्चित्तु बध्यत इति वैषम्ये को हेतुरिति तत्राऽऽह-

युक्तः कर्मफलं त्यक्त्वा शान्तिमानोति नैष्ठिकीम् ॥
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥

 युक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्येवमभिप्रायवान्कर्मफलं त्यक्त्वा कर्माणि कुर्वञ्शान्तिं मोक्षाख्यामाप्नोति नैष्ठिकीं सत्त्वशुद्धिनित्यानित्यवस्तुविवेकसंन्यासज्ञाननिष्ठाक्रमेण जातामिति यावत् । यस्तु पुनरयुक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्यभिप्रायशून्यः स कामकारेण कामतः प्रवृत्त्या मम फलायैवेदं कर्म करोमीति फले सक्तो निबध्यते कर्मभिनितरां संसारबन्धं प्राप्नोति । यस्मादेवं तस्मात्त्वमपि युक्तः सन्कर्माणि कुर्विति वाक्यशेषः ॥ १२ ॥

 श्री०टी०-ननु तेनैव कर्मणा कश्चिन्मुच्यते कश्चिद्वध्यत इति व्यवस्था कथमत आह-युक्त इति । युक्तः परमेश्वरैकनिष्ठः सन्कर्मणां फलं त्यक्त्वा कर्माणि कुर्वन्नात्यन्तिकीं शान्तिं मोक्षं प्राप्नोति । अयुक्तस्तु बहिर्मुखः कामकारेण कामतः प्रवृत्त्या फल आसक्तो नितरां बन्धं प्राप्नोति ॥ १२ ॥

 म०टी०-अशुद्धचित्तस्य केवलात्संन्यासात्कर्मयोगः श्रेयानिति पूर्वोक्तं प्रपञ्च्याधुना शुद्धचित्तस्य सर्वकर्मसंन्यास एव श्रेयानित्याह-


  1. क. ख. घ. ङ. च. छ. ज. अ. त्तसत्वशु।