पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
[अ०५क्ष्लो०१०]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


णाशनानि चक्षुःश्रोत्रत्वग्घ्राणरसनानां पञ्चज्ञानेन्द्रियाणां व्यापाराः पश्यञ्शृण्वन्स्पृशञ्जिघ्रनश्नन्नित्युक्ताः । गतिः पादयोः । प्रलापो वाचः । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोरिति पञ्च कर्मेन्द्रियव्यापारा गच्छन्प्रलपन्विसजन्गृह्णन्नित्युक्ताः । श्वसन्निति प्राणादिपञ्चकस्य व्यापारोपलक्षणम् । उन्मिषन्निमिषन्निति नागकर्मादिपञ्चकस्य । स्वपन्नित्यन्तःकरणचतुष्टयस्य । अर्थक्रमवशात्पाठक्रम भङ्क्त्वा व्या[१] यस्मात्सर्वव्यापारेष्वप्यात्मनोऽकर्तृत्वमेव पश्यति अतः कुर्वन्नपि न लिप्यत इति युक्तमेवोक्तमिति भावः ॥ ८ ॥९॥

 श्री० टी०--कर्म कुर्वन्नपि न लिप्यत इत्येतद्विरुद्धमित्याशङ्कय कर्तृत्वा [२]भिमानाभावान्न विरुद्धमित्याह-नैवेति द्वाभ्याम् । कर्मयोगेन(ण) युक्तः क्रमेण तत्त्वविद्भूत्वा दर्शनश्रवणादीनि कुर्वन्नपीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्बुद्ध्या निश्चित्य किंचिदप्यहं न करोमीति मन्येत मन्यते । तत्र दर्शनश्रवणस्पर्शनावघ्राणाशनानि चक्षुरादिज्ञानेन्द्रियव्यापाराः । गतिः पादयोः । स्वापो बुद्धेः । श्वासः प्राणस्य । प्रलपनं वागिन्द्रियस्य । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोः । उन्मेषणनिमेषणे कूर्माख्यप्राणस्येति विवेकः । एतानि कर्माणि कुर्वन्नपि अभिमानाभावाद्ब्रह्मविन्न लिप्यते । तथाच पारमर्षं सूत्रम्-" तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तथ्यपदेशात् " इति ॥ ८ ॥ ९ ॥

 म० टी०-तर्ह्यविद्वान्कर्तृत्वाभिमानालिप्येतैव तथाच कथं तस्य संन्यासपूर्विका ज्ञाननिष्ठा स्यादिति तत्राऽऽह-

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः॥
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१०॥

 ब्रह्मणि परमेश्वर आधाय समर्प्य सङ्गं फलाभिलाषं त्यक्त्वेश्वरार्थं भृत्य इव स्वाम्यर्थं स्वफलनिरपेक्षतया करोमीत्यभिप्रायेण कर्माणि लौकिकानि वैदिकानि च करोति यो लिप्यते न स पापेन पापपुण्यात्मकेन कर्मणेति यावत् । यथा पद्मपत्रमुपरि प्रक्षिप्तेनाम्भसा न लिप्यते तद्वत् । भगवदर्पणबुद्धयाऽनुष्ठितं कर्म बुद्धिशुद्धिफलमेव स्यात् ॥ १०॥

 श्री० टी०-तर्हि यस्य करोमीत्यभिमानोऽस्ति तस्य कर्मलेपो दुर्वारोऽविशुद्धचित्तत्वाच्च संन्यासोऽपि नास्तीति महत्संकटमापन्नमित्याशङ्कयाऽऽह-ब्रह्मणीति । ब्रह्मण्याधाय परमेश्वरे समर्प्य तत्फले च सङ्गं त्यक्त्वा यः कर्माणि करोति असौ


  1. क. ख. घ. इ. च. छ. ज. अ. अ. ख्यातोऽयं क्ष्लोकः । य ।ख्याताविभौ श्लोकौ ।
  2. ग. ब. छ. 'वाद्यभि ।