पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[भ०५क्ष्लो०७-९]
१६७
श्रीमद्भगवद्गीता।



योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः॥
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७॥

 भगवदर्पणफलाभिसंधिराहित्यादिगुणयुक्तं शास्त्रीय कर्म योग इत्युच्यते । तेन योगेन युक्तः पुरुषः प्रथमं विशुद्धात्मा विशुद्धो रजस्तमोभ्यामकलुषित आत्माऽन्तःकरणरूपं सत्त्वं यस्य स तथा। निर्मलान्तःकरणः सन्विजितात्मा स्ववशीकृतदेहः। ततो जितेन्द्रियः स्ववशीकृतसर्वबाह्येन्द्रियः । एतेन मनूक्तस्त्रिदण्डी कथितः,

“वाग्दडोऽथ मनोदण्डः कायदण्डस्तथैव च ।
यस्यैते नियता दण्डाः स त्रिदण्डीति कथ्यते " इति ॥

 वागिति बाह्येन्द्रियोपलक्षणम् । एतादृशस्य तत्त्वज्ञानमवश्यं भवतीत्याह-सर्वभूतात्मभूतात्मा सर्वभूत आत्ममूतश्चाऽऽत्मा स्वरूपं यस्य स तथा । जडाजडात्मकं सर्वमात्ममात्रं पश्यन्नित्यर्थः । सर्वेषां भूतानामात्मभूत आत्मा यस्येति व्याख्याने तु सर्वभूतात्मेत्येतावतैवार्थलाभादात्मभूतेत्यधिकं स्यात् । सर्वात्मपदयोर्जडाजडपरत्वे तु समञ्जसम् । एतादृशः परमार्थदर्शी कुर्वन्नपि कर्माणि परदृष्ट्या न लिप्यते तैः कर्मभिः स्वदृष्ट्या तदभावादित्यर्थः ॥ ७ ॥

 श्री०टी०-कर्मयोगादिक्रमेण ब्रह्माधिगमे सत्यपि तदुपरितनेन कर्मणा बन्धः स्यादेवेत्याशङ्कयाऽऽह-योगयुक्त इति । योगेन युक्तोऽतो विशुद्ध आत्मा चित्तं यस्यात एव विजित आत्मा शरीरं येन । अत एव जितानीन्द्रियाणि येन । ततश्च सर्वेषां भूतानामात्मभूत आत्मा यस्य स लोकसंग्रहार्थं स्वाभाविकं वा कर्म कुर्वन्नपि न लिप्यते तैर्न बध्यते ॥ ७ ॥

 म०टी०एतदेव विवृणोति द्वाभ्याम्-

नैव किंचित्करोमीति युक्तो मन्येत तत्त्वविद ॥
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८॥
प्रलपन्विसृजन्गृह्णन्नुन्मिषनिमिषन्नपि ॥
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥

 चक्षुरादिज्ञानेन्द्रियैर्वागादिकर्मेन्द्रियैः प्राणादिवायुभेदैरन्तःकरणचतुष्टयेन च तत्तच्चेष्टासु क्रियमाणासु इन्द्रियाणीन्द्रियादीन्येवेन्द्रियार्थेषु स्वस्वविषयेषु वर्तन्ते प्रवर्तन्ते न त्वहमिति धारयन्नवधारयन्नैव किंचित्करोमीति मन्येत मन्यते तत्त्ववित्परमार्थदर्शी युक्तः समाहितचित्तः । अथवाऽऽदौ युक्तः कर्मयोगेन(ण) पश्चादन्तःकरणशुद्धिद्वारेण तत्त्वविद्भूत्वा नैव किंचित्करोमीति मन्यत इति संबन्धः । तत्र दर्शनश्रवणस्पर्शनघ्रा-