निःश्रेयसकरौ ज्ञानोत्पत्तिहेतुत्वेन मोक्षोपयोगिनौ । तयोस्तु कर्मसंन्यासादनधिकारिकृतात्कर्मयोगो विशिष्यते श्रेयानधिकारसंपादकत्वेन ॥२॥
श्री०टी०--अत्रोत्तरम्-श्रीभगवानुवाच-संन्यास इति । अयं भावः-नहि वेदान्तवेद्यात्मतत्त्वविदं प्रति कर्मयोगमहं ब्रवीमि । यतः पूर्वोक्तेन संन्यासेन विरोधः स्यात्, अपि तु देहात्माभिमानिनं त्वां बन्धुवधादिनिमित्तशोकमोहादिकृतमेनं संशयं देहात्मविवेकज्ञानासिना छित्त्वा परमात्मज्ञानोपायभूतं कर्मयोगमातिष्ठेति ब्रवीमि । कर्मयोगेन(ण) शद्धचित्तस्य चाऽऽत्मतत्त्वज्ञाने जाते सति तत्परिपाकार्थ ज्ञाननिष्ठाङ्गत्वेन संन्यासः पूर्वमुक्तः । एवं सत्यङ्गप्रधानयोर्विकल्पायोगात्संन्यासः कर्मयोगश्चेत्येतावुभावपि भूमिकाभेदेन समुचितावेव निःश्रेयसं साधयतः, तथाऽपि तु तयोर्मध्ये कर्मसंन्यासात्सकाशात्कर्मयोगो विशि[१]ष्यते विशिष्टो भवति ॥ २ ॥
म०टी०-तमेव कर्मयोगं स्तौति त्रिभिः-
ज्ञेयः स नित्यसंन्यासी यो न दृष्टि न काङ्क्षति ॥ |
स कर्मणि प्रवृत्तोऽपि नित्यं संन्यासीति ज्ञेयः। कोऽसौ यो न द्वेष्टि भगवदर्पणबुद्ध्या क्रियमाणं कर्म निष्फलत्वशङ्कया । न काङ्क्षति स्वर्गादिकम् । निद्वंद्वी रागद्वेषरहितो हि यस्मात्सुखमनायासेन हे महाबाहो बन्धादन्तःकरणाशुद्धिरूपाज्ज्ञानप्रतिबन्धात्प्रमुच्यते नित्यानित्यवस्तुविवेकादिप्रकर्षेण मुक्तो भवति ॥ ३ ॥
श्री० टी०-कुत इत्यपेक्षायां संन्यासित्वेन कर्मयोगिनं स्तुवंस्तस्य श्रेष्ठत्वं दर्शयति-ज्ञेय इति । रागद्वेषादिराहित्येन परमेश्वरार्थं कर्माणि योऽनुतिष्ठति स नित्यं कर्मानुष्ठानकालेऽपि संन्यासी[२]त्येवं ज्ञेयः । तत्र हेतुः-निर्द्वद्वो रागद्वेषादिद्वंद्वशून्यो हि शुद्धचित्तो ज्ञानद्वारा सुखमनायासेनैव बन्धात्संसारात्प्रमुच्यते ॥ ३ ॥
म० टी०-ननु यः कर्मणि प्रवृत्तः स कथं संन्यासीति ज्ञातव्यः कर्मतत्त्यागयोः स्वरूपविरोधात्, फलैक्यात्तथेति चेत्, न स्वरूपतो विरुद्धयोः फलेऽपि विरोधस्यौचित्यात् । तथाच निःश्रेयप्तकरावुभावित्यनुपपन्नभित्याशङ्कयाऽऽह----
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ॥ |
संख्या सम्यगात्मबुद्धिस्तां वहतीति ज्ञानान्तरङ्गसाधनतया सांख्यः संन्यासः । योगः पूर्वोक्तः कर्मयोगः । तौ पृथग्विरुद्धफलौ बालाः शास्त्रार्थविवेकज्ञानशून्याः प्रव-