पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०५क्ष्लो. १-२]
१६३
श्रीमद्भगवद्गीता।


ज्ञानार्थत्वेन कर्मतत्त्यागयोविधानात्तयोश्च विरुद्धयोर्युगपदनुष्ठानासंभवान्मया जिज्ञासुना किमिदानीमनुष्ठेयमिति संदिहानः-

अर्जुन उवाच-
  संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ॥
  यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १॥

 हे कृष्ण सदानन्दरूप भक्तदुःखकर्षणेति वा । कर्मणां यावज्जीवादिश्रुतिविहितानां नित्यानां नैमित्तिकानां च संन्यासं त्यागं जिज्ञासुमज्ञं प्रति कथयति वेदमुखेन पुनस्तद्विरुद्धं योगं च कर्मानुष्ठानरूपं शंससि " एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति " "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन" इत्यादिवाक्यद्वयेन,

"निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाऽऽप्नोति किल्बिषम्"

 "छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत" इति गीतावाक्यद्वयेन वा । तत्रैकमज्ञं प्रति कर्मतत्त्यागयोर्विधानायुगपदुभयानुष्ठानासंमवादेतयोः कर्मतत्त्यागयोर्मध्ये यदेकं श्रेयः प्रशस्यतरं मन्यसे कर्म वा तत्त्यागं वा तन्मे ब्रूहि सुनिश्चितं तव मतमनुष्ठानाय ॥ १ ॥

श्री०टी०निवार्य संशयं जिष्णोः कर्मसंन्यासयोगयोः ।
  जितेन्द्रियस्य च यतेः पञ्चमे मुक्तिमब्रवीत् ॥ १ ॥

 अज्ञानसंभूतं संशयं ज्ञानासिना छित्त्वा कर्मयोगमातिष्ठेत्युक्तं तत्र पूर्वापरविरोधं मन्वानः-अर्जुन उवाच-संन्यासमिति। “यस्त्वात्मरतिरेव स्यात्" इत्यादिना "सर्व कर्माखिलं पार्थ " इत्यादिना च ज्ञानिनः कर्मसंन्यासं कथयसि । ज्ञानासिना संशयं छित्त्वा योगमातिष्ठेति पुनर्योग च कथयसि । न च कर्मसंन्यासः कर्मयोगश्चैकस्यैकदैव संभवतः, विरुद्धस्वरूपत्वात् । तस्मादेतयोर्मध्य एकस्मिन्ननुष्ठातव्ये सति मम यच्छ्रेयः श्रेष्ठं सुनिश्चितं तदेकं ब्रूहि[१] ॥ १॥

 म०टी०-एवमर्जुनस्य प्रश्ने तदुत्तरम्-

श्रीभगवानुवाच-
 संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ॥
 तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥२॥


अयं श्लोकः क. पुस्तक एव दृश्यते ।


  1. ख. हि कथय ॥१॥