ष्टार्थदृष्टार्थयोरारादुपकारकसंनिपत्योपकारकयोरेकप्रधानार्थत्वेऽपि विकल्पो नास्त्येव,
प्रयाजावघातादीनामपि तत्प्रसङ्गात् । तस्मात्क्रमेणोभयमप्यनुष्ठेयम् । तत्रापि संन्यासानन्तरं कर्मानुष्ठानं चेत्तदा परित्यक्तपूर्वाश्रमस्वीकारेणाऽऽरूढपतितत्वात्कर्मानधिकारित्वं प्राक्तनसंन्यासवैयर्थ्यं च तस्यादृष्टार्थत्वाभावात् । प्रथमकृतसंन्यासेनैव ज्ञानाधिकारलाभे तदुत्तरकाले कर्मानुष्ठानवैयर्थ्यं च । तस्मादादौ भगवदर्पणबुद्ध्या निष्कामकर्मानुष्ठानादन्तःकरणशुद्धौ तीव्रेण वैराग्येण विविदिषायां दृढायां सर्वकर्मसंन्यासः श्रवणमननादिरूपवेदान्तवाक्यविचाराय कर्तव्य इति भगवतो मतम् । तथा चोक्तम्-"न
कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते " इति । वक्ष्यते च-
" आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । |
योगोऽत्र तीववैराग्यपूर्विका विविदिषा । तदुक्तं वार्तिककारैः-
" प्रत्यग्विविदिषासिद्धयै वेदानुवचनादयः । |
स्मृतिश्च-" कषायपक्तिः क[१]र्माणि ज्ञानं तु परमा गतिः । |
मोक्षधर्मेच-" कषायं पाचयित्वा च श्रेणीस्थानेषु च त्रिषु ।
प्रव्रजेच्च परं स्थानं पारिवाज्यमनुत्तमम् ॥ |
मोक्षं वैराग्यम् । एतेन क्रमाक्रमसंन्यासौ द्वावपि दर्शितौ । तथा च श्रुतिः--" ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रबजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् " इति । तस्मादज्ञस्याविरक्ततादशायां कर्मानुष्ठानमेव । तस्यैव विरक्ततादशायां संन्यासः श्रवणाद्यवसरदानेन ज्ञानार्थ इति दशाभेदेनाज्ञमधिकृत्यैव कर्मतत्त्यागौ व्याख्यातुं पञ्चमषष्ठावध्यायावारभ्यते । विद्वत्संन्यासस्तु ज्ञानबलादर्थसिद्ध एवेति संदेहाभावान्नात्र विचार्यते । तत्रैकमेव जिज्ञासुमज्ञं प्रति
- ↑ क. कर्मभ्यो ।