पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०५क्ष्लो०१]
१६१
श्रीमद्भगवद्गीता।


पुमवस्थादिर्भेदेन कर्मज्ञानमयी द्विधा ।
निष्ठोक्ता येन तं वन्दे शौरि संशयसंछिदम् ॥ १॥

इति श्रीसुबोधिन्या टीकायां श्रीधरस्वामिविरचितायां
ज्ञानयोगो नाम चतुर्थोऽध्यायः ॥ ४ ॥

अथ पञ्चमोऽध्यायः।

 म. टी.--अध्यायाभ्यां कृतो द्वाभ्यां निर्णयः कर्मबोधयोः । कर्मतत्त्यागयोर्भ्यां निर्णयः क्रियतेऽधुना ॥

 तृतीयेऽध्याये " ज्यायसी चेत्कर्मणस्ते " इत्यादिनाऽर्जुनेन पृष्टो भगवाज्ञानकर्मणोर्विकल्पसमुच्चयासंभवेनाधिकारिभेदव्यवस्थया " लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मया" इत्यादिना निर्णयं कृतवान् । तथा चाज्ञाधिकारिकं कर्म न ज्ञानेन सह समुच्चीयते तेजस्तिमिरयोरिव युगपदसंभवात्कर्माधिकारहेतुभेदबुध्यपनोदकत्वेन ज्ञानस्य तद्विरोधित्वात् । नापि वि[१]कल्प्यते, एकार्थत्वाभावात् , ज्ञानकार्यस्याज्ञाननाशस्य कर्मणा कर्तुमशक्यत्वात् “तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इति श्रुतेः।ज्ञाने जाते तु कर्मकार्यं नापेक्ष्यत एवेत्युक्तं "यावानर्थ उदपाने" इत्यत्र । तथा च ज्ञानिनः कर्मानधिकारे निश्चिते प्रारब्धकर्मवशाद्वृथाचेष्टारूपेण तदनुष्ठानं वा सर्वकर्मसंन्यासो वेति निर्विवाद चतुर्थे निर्णीतम् । अज्ञेन त्वन्तःकरणशुद्धिद्वारा ज्ञानोत्पत्तये कर्माण्यनुष्ठेयानि " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुतेः, “सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते" इति भगवद्वचनाच्च । एवं सर्वकर्माणि ज्ञानार्थानि । तथा सर्वकर्मसंन्यासोऽपि ज्ञानार्थः श्रूयते-"एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति, " "शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत्, "त्यजतैव हि तज्ज्ञेयं त्यक्तः प्रत्यक्परं पदम्,“सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्याऽऽत्मानमन्विच्छेत् ," इत्यादौ । तत्र कर्मतत्त्यागयोरारादुपकारकसंनिपत्योपकारकयोः प्रयाजावघातयोरव न समुच्चयः संभवति विरुद्धत्वेन यौगपद्याभावात् । नापि कर्मतत्त्यागयोरात्मज्ञानमात्रफलत्वेनैकार्थत्वादतिरात्रयोः षोडशिग्रहणाग्रहणयोरिव विकल्पः स्यात्, द्वारभेदेनैकार्थत्वाभावात् । कर्मणो हि पापक्षयरूपमदृष्टमेव द्वार, संन्यासस्य तु सर्वविक्षेपाभावेन विचारावसरदानरूपं दृष्टमेव द्वारं, नियमापूर्वं तु दृष्टसमवायित्वादवघातादाविव न प्रयोजकम् । तथा चाह-


  1. घ. ङ, च, छ. कल्पते ।