पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
[अ०४क्ष्लो ०३५-३६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


दिमाननिपुणास्तत्त्वदर्शिनः कृतसाक्षात्काराः । साक्षात्कारवद्भिरुपदिष्टमेव ज्ञानं फलपर्यवसायि न तु तद्रहितैः पदवाक्यमाननिपुणैरपीति भगवतो मतं " तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्" इतिश्रुतिसंवादि । तत्रापि श्रोत्रियमधीतवेदं ब्रह्मनिष्ठं कृतब्रह्मसाक्षात्कारमिति व्याख्यानात् । बहुवचनं चेदमाचार्यविषयमेकस्मिन्नपि गौरवातिशयार्थं न तु बहुत्वविवक्षया। एकस्मादेव तत्त्वसाक्षात्कारवत आचार्यात्तत्त्वज्ञानोदये सत्याचार्यान्तरगमनस्य तदर्थमयोगादिति द्रष्टव्यम् ॥ ३४ ॥

 श्री०टी०;-एवंभूतात्मज्ञाने साधनमाह-तद्विद्धीति । तज्ज्ञानं विद्धि प्राप्नुहि । ज्ञानिनां प्रणिपातेन दण्डवन्नमस्कारेण, ततः परिप्रश्नेन कुतोऽयं मम संसारः कथं वा निवर्ततेति प्रश्नेन, सेवया शुश्रूषया च ज्ञानिनः शास्त्रज्ञास्तत्त्वदर्शिनोऽपरोक्षानुभवसंपन्नाश्च ते तुभ्यं ज्ञानमुपदेशेन संपादयिष्यन्ति ॥ ३४ ॥

 म०टी०-एवमतिनिर्बन्धेन ज्ञानोत्पादने किं स्यादत आह-

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ॥
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥

 यत्पूर्वोक्तं ज्ञानमाचार्यैरुपदिष्टं ज्ञात्वा प्राप्य, ओदनपाकं पचतीतिवत्तस्यैव धातोः सामान्यविवक्षया प्रयोगः। न पुनर्मोहमेवं बन्धुवधादिनिमित्तं भ्रमं यास्यसि हे पाण्डव । कस्मादेवं यस्मादेव ज्ञानेन भूतानि पितृपुत्रादीनि अशेषेण ब्रह्मादिस्तम्बपर्यन्तानि स्वाविद्याविजृम्भितानि आत्मनि त्वयि त्वंपदार्थेऽथो अपि मयि भगवति वासुदेव तत्पदार्थे परमार्थतो भेदरहितेऽधिष्ठानभूते द्रक्ष्यस्यभेदेनैव, अधिष्ठानातिरेकेण कल्पितस्याभावात् । मां भगवन्तं वासुदेवमात्मत्वेन साक्षात्कृत्य सर्वाज्ञाननाशे तत्कार्याणि भूतानि न स्थास्यन्तीति भावः ॥ ३९ ॥

 श्री० टी०--ज्ञानफलमाह-यज्ज्ञात्वेति सार्धेत्रिभि:-यज्ज्ञानं ज्ञात्वा प्राप्य पुनर्बन्धुवधादिनिमित्तं मोहं न प्राप्स्यसि । तत्र हेतुः---येन ज्ञानेन भूतानि पितृपुत्रादीनि स्वाविद्या[१]रचितानि स्वान्मन्येवाभेदेन द्रक्ष्यसि । अथो अनन्तरमात्मानं मयि परमात्मन्यभेदेन द्रक्ष्यसीत्यर्थः ॥ ३५ ॥

 म०टी०-किं च शृणु ज्ञानस्य माहात्म्यम्-

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः॥
सर्व ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ ३६॥

 अपि चेदित्यसंभाविताभ्युपगमप्रदर्शनार्थों निपातौ । यद्यप्ययमर्थो न संभवत्येव


  1. घ. 'घाविजम्मिता।