पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
[अ०४क्ष्लो०२५-२६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


हुतं होमः । अग्निश्च कर्ता च क्रिया च ब्रह्मैवेत्यर्थः । एवं ब्रह्मण्येव कर्मात्मके समाधिश्चित्तैकाग्र्यं यस्य तेन ब्रह्मैव गन्तव्यं प्राप्यं न तु फलान्तरमित्यर्थः ॥ २४ ॥

 म०टी०-अधुना सम्यग्दर्शनस्य यज्ञरूपत्वेन स्तावकतया ब्रह्मार्पणमन्त्रे स्थिते पुनरपि तस्य स्तुत्यर्थमितरान्यज्ञानुपन्यस्यति-

दैवमेवापरे यज्ञं योगिनः पर्युपासते ॥
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥

 देवा इन्द्राग्न्यादय इज्यन्ते येन स दैवस्तमेव यज्ञं दर्शपूर्णमासज्योतिष्टोमादिरूपमपरे योगिनः कर्मिणः पर्युपासते सर्वदा कुर्वन्ति न ज्ञानयज्ञम् । एवं कर्मयज्ञमुक्त्वान्तःकरणशुद्धिद्वारेण तत्फलभूतं ज्ञानयज्ञमाह-ब्रह्माग्नौ सत्यज्ञानानन्तानन्दरूपं निरस्तसमस्तविशेषं ब्रह्म तत्पदार्थस्तस्मिन्नग्नौ यज्ञं प्रत्यगात्मानं त्वंपदार्थं यज्ञेनैव, यज्ञशब्द आत्मनामसु यास्केन पठितः । इत्थंभूतलक्षणे तृतीया । एवकारो भेदाभेदव्यावृत्त्यर्थः । त्वंपदार्थाभेदेनैवोपजुह्वति तत्स्वरूपतया पश्यन्तीत्यर्थः । अपरे पूर्वविलक्षणास्तत्त्वदर्शननिष्ठाः संन्यासिन इत्यर्थः । जीवब्रह्माभेददर्शनं यज्ञत्वेन संपाद्य तत्साधनयज्ञमध्ये पठ्यते श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञ इत्यादिना स्तोतुम् ॥ २५ ॥

 श्री०टी०-एतदेव यज्ञत्वेन संपादितं सर्वत्र ब्रह्मदर्शनलक्षणं ज्ञानं सर्वयज्ञोपायप्राप्यत्वात्सर्वयज्ञेभ्यः श्रेष्ठमित्येवं स्तोतुमधिकारिभेदेन ज्ञानोपायभूतान्बहून्यज्ञानाह दैव[१]मि[२]त्या [३]दिभिः श्लोकैः-देवा इन्द्रवरुणादय इज्यन्ते यस्मिन् । एवकारेणेन्द्रादिषु ब्रह्मबुद्धिराहित्यं दर्शितम् । तं दैवमेव यज्ञमपरे कर्मयोगिनः(गः) पर्युपासते श्रद्धयाऽनुतिष्ठन्ति । अपरे तु ज्ञानयोगिनो ब्रह्मरूपेऽग्नौ यज्ञेनैवो [४] पायभूतेन ब्रह्मार्पणमित्युक्तप्रकारेण यज्ञमुपजुह्वति यज्ञादिसर्वकर्माणि प्रविलापयन्तीत्यर्थः । सोऽयं ज्ञानयज्ञः ॥ २५ ॥

 म० टी०-तदनेन मुख्यगौणौ द्वौ यज्ञौ दर्शितौ । यावद्धि किंचिद्वैदिकं श्रेयःसा- धनं तत्सर्वं यज्ञत्वेन संपाद्यते । तत्र

श्रोत्रादीनीन्द्रियाण्यन्ये संयमामिषु जुह्वति ॥
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥

 श्रोत्रादीनि ज्ञानेन्द्रियाणि तानि शब्दादिविषयेभ्यः प्रत्याहृत्यान्ये प्रत्याहारपराः संयमाग्निषु, धारणा ध्यानं समाधिरिति त्रयमेकविषयं संयमशब्देनोच्यते । तथा चाऽऽह भगवान्पतञ्जलिः--" त्रयमेकत्र संयमः” इति । तत्र हृत्पुण्डरीकादौ मनस-


  1. छ. ज. झ. वमेवेत्यादिभिरष्टभिः-दें ।
  2. क. च. अ. मित्सष्टभिः-दे ।
  3. ग. घ. ङ. "त्यादिभिरष्टभिः-दें।
  4. ख. घ. . ज. झ. 'पायेन ।