पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० क्ष्लोक २४]
१४५
श्रीमद्भगवहीता।



व्युत्पत्त्याऽर्पणं जुह्वादि मन्त्रादि च । एवमर्प्यतेऽस्मा इति व्युत्पत्त्याऽर्पणं देवतारूपं संप्रदानम् । एवमर्प्यतेऽस्मिन्निति व्युत्पत्त्याऽर्पणमधिकरणं देशकालादि । तत्सर्व ब्रह्मणि कल्पितत्वाद्ब्रह्मेव रज्जुकल्पितभुजंगवदधिष्ठानव्यतिरेकेणासदित्यर्थः । एवं हविस्त्यागप्रक्षेपक्रिययोः साक्षात्कर्म कारकं तदपि ब्रह्मैव । एवं यत्र प्रक्षिप्यतेऽग्नौ सोऽपि ब्रह्मैव । ब्रह्मान्नाविति समस्तं पदम् । तथा येन कर्त्रा यजमानेनाध्वर्युणा च त्यज्यते प्रक्षिप्यते च तदुभयमपि कर्तृकारकं कर्तरि विहितया तृतीययाऽनूद्य ब्रह्मेति विधीयते ब्रह्मणेति । एवं हुतमिति हवनं त्यागक्रिया प्रक्षेपक्रिया च तदपि ब्रह्मैव । तथा तेन हवनेन यद्गन्तव्यं स्वर्गादि व्यवहितं कर्म तदपि ब्रह्मैव । अत्रत्य एवकारः सर्वत्र संबध्यते । हुतमित्यत्रापीत एव ब्रह्मेत्यनुषज्यते । व्यवधानाभावात्साकाङ्क्षत्वाच्च "चित्पतिस्त्वा पुनातु" इत्यादावच्छिद्रेणेत्यादिपरवाक्यशेषवत् । अनेन रूपेण कर्मणि समाधिर्ब्रह्मज्ञानं यस्य स कर्मसमाधिस्तेन ब्रह्मविदा कर्मानुष्ठात्राऽपि ब्रह्म परमानन्दाद्वयं गन्तव्यमित्यनुपज्यते । साकाङ्क्षवाद[१]व्यवधानाच्च या ते अग्ने रजाशयेत्यादौ तनूर्वषिष्ठेत्यादिपूर्ववाक्यशेषवत् । अथवाऽप्यतेऽस्मै फलायेति व्युत्पत्त्याऽर्पणपदेनैव स्वर्गादिफलमपि ग्राह्यम् । तथा च "ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना" इत्युत्तरार्धं ज्ञानफलकथनायैवेति समञ्जसम् । अस्मिन्पक्षे ब्रह्मकर्मसमाधिनेत्येकं वा पदम् । पूर्व ब्रह्पदं हुतमित्यनेन संबध्यते चरमं गन्तव्यपदेनेति भिन्नं वा पदम् । एवं च नानुषङ्गद्वयक्लेश इति द्रष्टव्यम् । ब्रह्म गन्तव्यमित्यभेदेनैव तत्प्राप्तिरुपचारात् । अत एव न स्वर्गादि तुच्छफलं तेन गन्तव्यं विद्ययाऽऽविद्यककारकव्यवहारोच्छेदात् । तदुक्तं वार्तिककृद्भिः-

कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते ।
शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिः कुतः" इति ॥

 अर्पणादिकारकस्वरूपानुपमर्दैनैव तत्र नामादाविव ब्रह्मदृष्टिः क्षिप्यते संपन्मात्रेण फलविशेषायेति केषांचियाख्यानं भाष्यकृद्भिरेव निराकृतमुपक्रमादिविरोधाद्रह्मविद्याप्र- करणे संपन्मात्रस्याप्रसक्तत्वादित्यादियुक्तिभिः ॥ २४ ॥

 श्री०टी०–तदेवं परमेश्वराराधनलक्षणं कर्म ज्ञानहेतुत्वेन बन्धकत्वाभावादकर्मैव । आरूढावस्थायां त्वकर्तात्मज्ञानेन बाधितत्वात्स्वाभाविकमपि कर्माकमैवेति कर्मण्यकर्म यः पश्येदित्यनेनोक्तः कर्मप्रविलयः प्रपञ्चितः । इदानीं कर्मणि तदनेषु च ब्रह्मैवानुस्यूतं पश्यतः कर्मप्रविलयमाह-ब्रह्मार्पणमिति । अर्प्यतेऽनेनेत्यर्पणं [२]स्नुवादि तदपि ब्रह्मैव । अर्घ्यमाणं हविरपि घृतादिकं ब्रह्मैव । ब्रह्मैवाग्निस्तस्मिन्ब्रह्मणा कर्त्रा


  1. ख. ग, घ, ङ. च, छ, ज. अ. व्यवायाच्च ।
  2. घ. ङ, जुह्वादि ।