पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
[अ०४क्ष्लो ०२२-२४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ॥
यज्ञायाऽऽचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

 गतसङ्गस्य फलासङ्गशून्यस्य मुक्तस्य कर्तृत्वभोक्तृत्वाद्यध्यासशून्यस्य ज्ञानावस्थितचेतसो निर्विकल्पकब्रह्मात्मैक्यबोध एव स्थितं चित्तं यस्य तस्य स्थितप्रज्ञस्येत्यर्थः । उत्तरोत्तरविशेषणस्य पूर्वपूर्वहेतुत्वेनान्वयो द्रष्टव्यः । गतसङ्गत्वं कुतो यतोऽध्यासहीनत्वं तत्कुतो यतः स्थितप्रज्ञत्वमिति । ईदृशस्यापि प्रारब्धकर्मवशाद्यज्ञाय यज्ञसंरक्षणार्थ ज्योतिष्टोमादियज्ञे श्रेष्ठाचारत्वेन लोकप्रवृत्त्यर्थं यज्ञाय विष्णवे तत्प्रीत्यर्थमिति वा । आचरतः कर्म यज्ञदानादिकं समग्रं सहाग्रेण फलेन विद्यत इति समग्रं प्रविलीयते प्रकर्षण कारणोच्छेदेन तत्त्वदर्शनाद्विलीयते विनश्यतीत्यर्थः ॥ २३ ॥

 श्री० टी०-किं च-गतसङ्गस्येति । गतसङ्गस्य निष्कामस्य रागादिभिर्मुक्तस्य ज्ञानेऽवस्थितं चेतो यस्य तस्य यज्ञाय परमेश्वरार्थ कर्माऽऽचरतः सतः समग्रं सवासनं कर्म प्रविलीयतेऽकर्मभावमापद्यते । आरूढयोगपक्षे यज्ञायेति यज्ञसंरक्षणार्थं लोकसंग्रहार्थमेव कर्म कुर्वत इत्यर्थः ॥ २३ ॥

 म०टी०-ननु क्रियमाणं कर्म फलमजनयित्वैव कुतो नश्यति ब्रह्मबोधे तत्कारणोच्छेदादित्याह-

ब्रह्मार्पणं ब्रह्म हविब्रह्माग्नौ ब्रह्मणा हुतम् ॥
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्मसमाधिना ॥ २४॥

 अनेककारकासाध्या हि यज्ञादिक्रिया भवति । देवतोद्देशेन हि द्रव्यत्यागो यागः । स एव त्यज्यमानद्रव्यस्याग्नौ प्रक्षेपाद्धोम इत्युच्यते । तत्रोद्देश्या देवता संप्रदानं, त्यज्यमानं द्रव्यं हविःशब्दवाच्यं साक्षाद्धात्वर्थकर्म, तत्फलं तु स्वर्गादि व्यवहितं भावनाकर्म । एवं धारकत्वेन हविषोऽग्नौ प्रक्षेपे साधकतमतया जुह्वादि करणं प्रकाशकतया मन्त्रादीति करणमपि कारकज्ञापकभेदेन द्विविधम् । एवं त्यागोऽग्नौ प्रक्षेपश्च द्वे क्रिये । तत्राऽऽद्यायां यजमानः कर्ता । प्रक्षेपे तु यजमानपरिक्रीतोऽध्वर्युः । प्रक्षेपाधिकरणं चाग्निः । एवं देशकालादिकमप्यधिकरणं सर्वक्रियासाधारणं दृष्टव्यम् । तदेवं सर्वेषां क्रियाकार[१]कादिव्यवहाराणां ब्रह्माज्ञानकल्पितानां रज्ज्वज्ञान कल्पितानां सर्पधारादण्डादीनां रज्जुतत्त्वज्ञानेनेव ब्रह्मतत्त्वज्ञानेन बाधे बाधितानुवृत्त्या क्रियाकारकादिव्यवहाराभासो दृश्यमानोऽपि दग्धपटन्यायेन न फलाय कल्पत इत्यनेन श्लोकेन प्रतिपाद्यते । ब्रह्मदृष्टिरेव च सर्वयज्ञात्मिकेति स्तूयते । तथाहि-अर्प्येतेऽनेनेति करण-


  1. ख. ग. घ. इ. च. छ. ज. अ. रकव्य।