पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
[अ० क्ष्लो०२१]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


विहिते[१] वा कर्मणि अभितः प्रवृत्तोऽपि किंचिदपि नैव करोति तस्य कर्माकर्मतामापद्यत इत्यर्थः ॥ २० ॥

 म० टी०~यदाऽत्यन्तविक्षेपहेतोरपि ज्योतिष्टोमादेः सम्यग्ज्ञानव[२]शान्न तत्फलजनकत्वं तदा शरीरस्थितिमात्रहेतोरविक्षेपकस्य भिक्षाटनादेर्नास्त्येव बन्धहेतुत्वमिति कैमुत्यन्यायेनाऽऽह-

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ॥
शारीरं केवलं कर्म कुर्वन्नाऽऽप्नोति किल्बिषम् ॥२१॥

 निराशीर्गततृष्णो यतचित्तात्मा चित्तमन्तःकरणमात्मा बाह्येन्द्रियसहितो देहस्तौ संयती प्रत्याहारेण निगृहीती येन सः। यतो जितेन्द्रियोऽतो विगततृष्णत्वात्त्यक्तर्वपरिग्रहस्त्यक्ताः सर्वे परिग्रहा भोगोपकरणानि येन सः । एतादृशोऽपि प्रारब्धकर्मवशाच्छारीरं शरीरस्थितिमात्रप्रयोजनं कौपीनाच्छादनादिग्रहणभिक्षाटनादिरूपं यति प्रति शास्त्राभ्यनुज्ञातं कर्म कायिकं वाचिकं मानसं च, तदपि केवलं कर्तृत्वाभिमानशून्यं पराध्यारोपितकर्तृत्वेन कुर्वन्परमार्थतोऽकर्त्रात्मदर्शनान्नाऽऽप्नोति न प्राप्नोति किल्बिषं धर्माधर्मफलभूतमनिष्टं संसारं पापवत्पुण्यस्याप्यनिष्टफलत्वेन किल्विषत्वात् । ये तु शरीरनिर्वर्त्य शारीरमिति व्याचक्षते तन्मते केवलं कर्म कुर्वन्नित्यतोऽधिकार्थालाभादव्यावर्तकत्वेन शारीरपदस्य वैयर्थ्यम् । अथ वाचिकमानसिकव्यावर्तनार्थमिति ब्रूयात्तदा कर्मपदस्थ विहितमात्रपरत्वेन शारीरं विहितं कर्म कुर्वन्नाऽऽप्नोति किल्विषमित्यप्रसक्तप्रतिषेधोऽनर्थकः । वाचिकं मानसं च विहितं कर्म कुर्वन्प्राप्नोति किल्विषमिति च शास्त्रविरुद्धमुक्तं स्यात् । विहितप्रतिषिद्धसाधारणपरत्वेऽप्येवमेव व्याघात इति भाष्य एव विस्तरः ॥ २१ ॥

 श्री०टी०-किं च-निराशीरिति । निर्गता आशिषः कामना यस्मात् । यतं नियतं चित्तमात्मा च शरीरं यस्य । त्यक्ताः सर्वे परिग्रहा येन सः । शारीरं शरीरमात्रनिर्वर्त्यं कर्तत्वाभिनिवेशरहितं कर्म कुर्वन्नपि किल्विषं बन्धनं न प्राप्नोति । योगारूढपक्षे शरीरनिर्वाहमात्रोपयोगि स्वाभाविकं भिक्षाटनादिकर्म कुर्वन्नपि किल्विषं विहिताकरणनिमित्तं दोषं न प्राप्नोतीति ॥ २१ ॥

 म० टी०-त्यक्तसर्वपरिग्रहस्य यतेः शरीरस्थितिमात्रप्रयोजनं कर्माभ्यनुज्ञातं तत्रान्नाच्छादनादिव्यतिरेकेण शरीरस्थितेरसंभवाद्याच्ञादिनाऽपि स्वप्रयत्नेनान्नादिक संपाद्यमिति प्राप्ते नियमायाऽऽह-


  1. क. ज. "तेच क। खग, घ, ङ, च. छ. ज. ते क।
  2. ख. घ. ह. छ. ज. "शात्फलाज।