विवेकिनोऽपि मोहिताः । अतो यज्ज्ञात्वाऽनुष्ठायाशुभासंसारान्मोक्ष्यसे मुक्तो
भविष्यसि तत्कर्माकर्म च तुभ्यमहं प्रवक्ष्यामि शृणु ॥ १६ ॥
म०टी०-ननु सर्वलोकप्रसिद्धत्वादहमेवैतज्जानामि देहेन्द्रियादिव्यापारः कर्म तूष्णीमासनमकर्मेति तत्र किं त्वया वक्तव्यमिति तत्राऽऽह-
कर्मणो ह्यपि बोधव्यं बोधव्यं च विकर्मणः ॥ |
हि यस्मात्कर्मणः शास्त्रविहितस्यापि तत्त्वं बोद्धव्यमस्ति, विकर्मणश्च प्रतिषिद्धस्य, अकर्मणश्च तूष्णींभावस्य । अत्र वाक्यत्रयेऽपि तत्त्वमस्तीत्यध्याहारः । यस्माद्गहना दुर्ज्ञाना । कर्मण इत्युपलक्षणं कर्माकर्मविकर्मणाम् । गतिस्तत्त्वमित्यर्थः ॥ १७ ॥
श्री० टी०-- ननु लोकप्रसिद्धमेव कर्म देहादिव्यापारात्मकमकर्म च तदव्यापारात्मकम् । अतः कथमुच्यते कवयोऽप्यत्र मोहं प्राप्ता इति तत्राऽऽह-कर्मण इति । कर्मणो विहितव्यापारस्यापि तत्त्वं बोद्धव्यमस्ति न तु लोकप्रसिद्धमात्रमेव । अकर्म[१]णोऽव्यापारस्यापि तत्त्वं बोद्धव्यमस्ति । विकर्मणोऽपि निषिद्धस्यापि तत्त्वं बोद्धव्यमस्ति । यतः कर्मणो गतिर्गहना । कर्मण इत्युपलक्षणार्थम् । कर्माकर्मविकर्मणां तत्त्वं दुर्विज्ञेयमित्यर्थः ॥ १७ ॥
म.टी.-कीदृशं तर्हि कर्मादीनां तत्त्वमिति तदाह-
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ॥ |
कर्मणि देहेन्द्रियादिव्यापारे विहिते प्रतिषिद्धे चाहं करोमीति[२] [३]धर्म्यध्यासेनाऽऽत्मन्यारोपिते नौस्थेनाचलत्सु तटस्थवृक्षादिषु समारोपिते चलन इवाकर्त्रात्मस्वरूपालोचनेन वस्तुतः कर्माभावं तटस्थवृक्षादिष्विव यः पश्येत्पश्यति । तथा देहेन्द्रियादिषु त्रिगुणमायापरिणामत्वेन सर्वदा सव्यापारेषु निर्व्यापारस्तूष्णीं सुखमास इत्य- भिमानेन समारोपितेऽकर्मणि व्यापारोपरमे दूरस्थचक्षुःसंनिकृष्टपुरुषेषु गच्छत्स्वप्यगमन इव सर्वदा सव्यापारदेहेन्द्रियादिस्वरूपपर्यालोचनेन वस्तुगत्या कर्म निवृत्याख्यप्रयत्नरूपं व्यापारं यः पश्येदुदाहृतपुरुषेषु गमनमिव । औदासीन्यावस्थायामप्युदासीनोऽहमास इत्यभिमान एव कर्म । एतादृशः परमार्थदर्शी स बृद्धिमानित्यादिना बुद्धिमत्त्वयोगयुक्तत्वसर्वकर्मकृत्त्वैस्त्रिभिधर्मेः स्तूयते । अत्र प्रथमपादेन कर्मविकर्मणोस्तत्त्वं कर्मशब्दस्य विहितप्रतिषिद्धपरत्वात् , द्वितीयपादेन चाकर्मणस्तत्त्वं