पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
[अ०४क्ष्लो ०१३-१४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


 म०. टी०-शरीरारम्भकगुणवैषम्यादपि न सर्वे समानस्वभावा इत्याह-

चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः ॥
तस्य कर्तारमपि मां विध्ध्यकर्तारमव्ययम् ॥ १३ ॥

 चत्वारो वर्णा एव चातुर्वर्ण्य स्वार्थे ष्यञ् । मयेश्वरेण सृष्टमुत्पादितं गुणकर्मविभागशो गुणविभागशः कर्मविभागशश्च । तथाहि सत्त्वप्रधाना ब्राह्मणास्तेषां च सात्त्विकानि शमदमादीनि कर्माणि । सत्त्वोपसर्जनरजःप्रधानाः क्षत्रियास्तेषां च तादृशानि शौर्यतेजःप्रभृतीनि कर्माणि । तमउपसर्जनरजःप्रधाना वैश्यास्तेषां च कृष्यादीनि तादृशानि कर्माणि । तमःप्रधानाः शूद्रास्तेषां च तामसानि त्रैवर्णिकशुश्रूषादीनि कर्माणीति मानुषे लोके व्यवस्थितानि । एवं तर्हि विषमस्वभावचातुर्वर्ण्यस्रष्टुत्वेन तव वैषम्यं दुर्वारमित्याशङ्कय नेत्याह-तस्य विषमस्वभावस्य चातुर्वर्ण्यस्य व्यवहारदृष्ट्या कर्तारमपि मां परमार्थदृष्ट्या विद्धयकर्तारमव्ययं निरहंकारत्वेनाक्षीणमहिमानम् ॥ १३ ॥

 श्री०टी०-ननु केचित्सकामतया प्रवर्तन्ते केचिनिष्कामतयेति कर्मवैचित्र्यं तत्कर्तृणां च ब्राह्मणादीनामुत्तममध्यमादिवैचित्र्यं कुर्वतस्तव कथं वैषम्यं नास्तीत्याशङ्कयाऽऽह-चातुर्वर्ण्य मिति । चत्वारो वर्णा एव चातुर्वर्ण्यम् । स्वार्थे ष्यङ्प्रत्ययः । अयमर्थः -सत्त्वप्रधाना ब्राह्मणास्तेषां च शमदमादीनि कर्माणि । सत्वरजःप्रधानाः क्षत्रियास्तेषां च शौर्ययुद्धादीनि कर्माणि । रजस्तमःप्रधाना वैश्यास्तेषां कृषिवाणिज्यादीनि कर्माणि । तमःप्रधानाः शूद्रास्तेषां च त्रैवर्णिकशुश्रूषादिकर्माणीत्येवं गुणानां कर्मणां च विभागैश्चातुर्वर्ण्यं मयैव सृष्टमिति सत्यं तथाऽप्येवं तस्य कर्तारमपि फलतोऽकर्तारमेव मां विद्धि । तत्र हेतुः-अव्ययम् , आसक्तिराहित्येन[१][२] नाशरहितम् ॥१३॥

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ॥
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥१४॥

 म०. टी०-कर्माणि विश्वसर्गादीनि मां निरहंकारत्वेन कर्तृत्वाभिमानहीनं भगवन्तं न लिम्पन्ति देहारम्भकत्वेन न बन्धन्ति । एवं कर्तृत्वं निराकृत्य भोक्तृत्वं निराकरोति न मे ममाऽऽतकामस्य कर्मफले स्पृहा तृष्णा " आप्तकामस्य का स्पृहा" इति श्रुतेः । कर्तृत्वाभिमानफलस्पृहाभ्यां हि कर्माणि लिम्पन्ति तदभावान्न मां कर्माणि लिम्पन्तीति । एवं योऽन्योऽपि मामकर्तारमभोक्तारं चाऽऽत्मत्वेनाभिजानाति कर्मभिर्न स बध्यतेऽकर्त्रात्मज्ञानेन मुच्यत इत्यर्थः ॥ १४ ॥

 श्री०टी०-तदेव दर्शयन्नाह-न मामिति । कर्माणि विश्वसृष्ट्यादीन्यपि मां


  1. क. ख. ब. न श्रमरहितं नाशादिर।
  2. ग. घ. ङ. च. छ. ज. न श्रमर ।