पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०४क्ष्लो०१२]
१३५
श्रीमद्भगवद्गीता।


चानुगृह्णामि । जिज्ञासून्विविदिषन्ति यज्ञेनेत्यादिश्रुतिविहितनिष्कामकर्मानुष्ठातृज्ञानदानेन ज्ञानिनश्च मुमुक्षन्मोक्षदानेन न त्वन्यकामायान्यद्ददामीत्यर्थः । ननु तथाऽपि स्वभक्तानामेव फलं ददासि न त्वन्यदेवभक्तानामिति वैषम्यं स्थितमेवेति नेत्याह-मम सर्वात्मनो वासुदेवस्य वर्त्म भजनमार्ग कर्मज्ञानलक्षणमनुवर्तन्ते हे पार्थ सर्वशः सर्वप्रकारैरिन्द्रादीनप्यनुवर्तमाना मनुष्या इति कर्माधिकारिणः । " इन्द्रं मित्रं वरुणमग्निमाहुः " इत्यादिमन्त्रवर्णात् फलमत उपपत्तेः” इति न्यायाञ्च सर्वरूपेणापि फलदाता भगवानेक एवेत्यर्थः । तथा च वक्ष्यति येऽप्यन्यदेवताभक्ता इत्यादि ॥ ११॥

 श्री०टी०--ननु तर्हि किं त्वय्याप वैषम्यमस्ति यस्मादेवं त्वदेकशरणानामेवाऽऽत्ममावं ददासि नान्येषां सकामानामित्यत आह-ये यथेति । यथा येन प्रकारेण सकामतया निष्कामतया वा ये मां भजन्ति तानहं तथैव तदपेक्षितफलदानेन भजामि अनुगृह्णामि न तु ये सकामा मां विहायेन्द्रादीनेव भजन्ते तानहमुपेक्ष इति मन्तव्यम् । यतः सर्वशः सर्वप्रकारैरिन्द्रादिसेवका अपि ममैव वर्त्म भजनमार्गमनुवर्तन्ते, इन्द्रादिरूपेणापि ममैव सेव्यत्वात् ॥ ११ ॥

 म०टी०-ननु त्वामेव भगवन्तं वासुदेवं किमिति सर्वे न प्रपद्यन्त इति तत्राऽऽह-

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ॥
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥

 कर्मणां सिद्धिं फलनिष्पत्तिं काङ्क्षन्त इह लोके देवता देवानिन्द्राग्न्याद्यान्यजन्ते पूजयन्ति अज्ञानप्रतिहतत्वान्न तु निष्कामाः सन्तो मां भगवन्तं वासुदेवमिति शेषः । कस्मात् , हि यस्मादिन्द्रादिदेवतायाजिनां तत्फलकाक्षिणां कर्मजा सिद्धिः कर्मजन्यं फलं क्षिप्रं शीघ्रमेव भवति मानुषे लोके । ज्ञानफलं त्वन्तःकरणशुद्धिसापेक्षत्वान्न क्षिप्रं भवति । मानुषे लोके कर्मफलं शीघ्र भवतीति विशेषणादन्यलोकेऽपि वर्णाश्रमधर्मव्यतिरिक्तकर्मफलसिद्धिर्भगवता सूचिता । यतस्तत्तत्क्षुद्रफलसिद्धयर्थं सकामा मोक्षविमुखा अन्या देवता यजन्तेऽतो न मुमुक्षव इव मां वासुदेवं साक्षात्ते प्रपद्यन्त इत्यर्थः ॥ १२ ॥

 श्री०टी०-तर्हि मोक्षार्थमेव किमिति सर्वे[१] न भजन्तीत्यत आह-काङ्क्षन्त इति । कर्मणां सिद्धिं फलं काङ्क्षन्तः प्रायश इह मनुष्यलोक इन्द्रादिदेवता एवं यजन्ते न तु साक्षान्मामेव । हि यस्मात्कर्मना सिद्धिः कर्मजं फलं शीघ्रं भवति न तु ज्ञानफलं कैवल्यं दुष्प्रापत्वाज्ज्ञानस्य ॥ १२ ॥


  1. क. त्वां न । २. क. प्राप्यत्वा ।