पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
[अ० क्ष्लो०१०-११]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ॥
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १०॥

 रागस्तत्तत्फलतृष्णा । सर्वान्विषयान्परित्यज्य ज्ञानमार्गे कथं जीवितव्यमिति त्रासो भयम् । सर्वविषयोच्छेदकोऽयं ज्ञानमार्गः कथं हितः स्यादिति द्वेषः क्रोधः । त एते रागभयकोधा वीता विवेकेन विगता येभ्यस्ते वीतरागभयक्रोधाः शुद्धसत्त्वाः । मन्मया मां परमात्मानं तत्पदार्थत्वंपदार्थाभेदेन साक्षात्कृतवन्तो मदेकचित्ता वा । मामुपाश्रिता एकान्तप्रेमभक्त्या मामीश्वरं शरणं गताः । बहवोऽनेके ज्ञानतपसा ज्ञानमेव तपः सर्वकर्मक्षयहेतुत्वात् , "न हि ज्ञानेन सदृशं पवित्रमिह विद्यते" इति हि वक्ष्यति । तेन पूताः क्षीणसर्वपापाः सन्तो निरस्ताज्ञानतत्कार्यमलाः । मद्भावं मद्रूपत्वं विशुद्धसच्चिदानन्द- घनं मोक्षमागता अज्ञानमात्रापनयेन[१] प्राप्ताः । ज्ञानतपसा पूता जीवन्मुक्ताः सन्तो मद्भावं मद्विषयं भावं रत्याख्यं प्रेमाणमागता इति वा । "तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते” इति हि वक्ष्यति ॥ १० ॥

 श्री०टी०-कथं जन्मकर्मज्ञानेन त्वत्प्राप्तिः स्यादित्यत्राऽऽह-वीतरागेति । अहं शुद्धसत्त्वावतारैर्धर्मपरिपालनं करोमीति मदीयं परमकारुणिकत्वं ज्ञात्वा वीता विगता रागभयक्रोधा येभ्यस्ते विक्षेपाभावात् । मन्मया मदेकचित्ता भूत्वा मामेवोपाश्रिताः सन्तो मत्प्रसादलभ्यं यदात्मज्ञानं च तपश्च तत्परिपाकहेतुः स्वधर्मस्तयोद्वैकवद्भावः । तेन ज्ञानतपसा पूताः शुद्धा निरस्ताज्ञानतत्कार्यमलाः सन्तो मद्भावं मत्सायुज्यं प्राप्ता बहवः । न त्वधुनैव प्रवृत्तोऽयं मद्भक्तिमार्ग इत्यर्थः । तदेवं "तान्यहं वेद सर्वाणि" इत्यादिना विद्याविद्योपाधिम्यां तत्त्वंपदार्थावीश्वरजीवौ प्रदर्श्येश्वर[२]स्य "चाविद्याभावेन नित्यशुद्धत्वाज्जीवस्य चेश्वरप्रसादलब्धज्ञानेनाज्ञाननिवृत्तेः शुद्धस्य सतश्चिदंशेन तदैक्यमुक्तमिति द्रष्टव्यम् ॥ १०॥

 म० टी०-~-ननु ये ज्ञानतपसा पूता निष्कामास्ते त्वद्भावं गच्छन्ति, ये त्वपूताः सकामास्ते न गच्छन्तीति फलदातुस्तव वैषम्यनैर्वृण्ये स्यातामिति नेत्याह-

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥
मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११॥

 य आर्ता अर्थाथिनो जिज्ञासवो ज्ञानिनश्च यथा येन प्रकारेण सकामतया निष्काम- तया च मामीश्वरं सर्वफलदातारं प्रपद्यन्ते भजन्ति तांस्तथैव तदपेक्षितफलदानेनैव भजान्यनुगृह्णाम्यहं न विपर्ययेण । तत्रामुमुक्षूनार्तानर्थार् थिनश्चाऽऽर्तिहरणेनार्थदानेन


  1. क. छ. न मोक्ष प्रा ।
  2. ख. 'स्य च वि।