पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०४क्ष्लो०५]
१२९
श्रीमद्भगवद्गीता।



 अपरमल्पकालीनमिदानीतनं वसुदेवगृहे भवतो जन्म शरीरग्रहणं विहीनं च मनुष्यत्वात् । परं बहुकालीनं सर्गादिभवमुत्कृष्टं च देवत्वात् , विवस्वतो जन्म । अत्राऽऽत्मनो जन्माभावस्य प्राग्व्युत्पादितत्वाद्देहाभिप्रायेणैवार्जुनस्य प्रश्नः । अतः कथमेतद्विजानीयामविरुद्धार्थतया । एतच्छब्दार्थमेव विवृणोति-त्वमादौ प्रोक्तवानिति । स्वमिदानीतनो मनुष्योऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायाऽऽदित्याय प्रोक्तवानिति विरुद्धार्थमेतदिति भावः । अत्रायं निर्गलितोऽर्थः- एतद्देहानवच्छिन्नस्य तव देहान्तरावच्छेदेन वाऽऽदित्यं प्रत्युपदेष्ट्रत्वमेतद्देहेन वा । नाऽऽद्यः । जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुमशक्यत्वात् । अन्यथा ममापि जन्मान्तरानुभूतस्मरणप्रसङ्गः, तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात् । तदुक्तमभियुक्तैः--" जन्मान्तरानुभूतं च न स्मर्यते " इति । नापि द्वितीयः सर्गादाविदानींतनस्य देहस्यासद्भावात् । तदेवं देहान्तरेण सर्गादौ सद्धावसंभवेऽपीदानीं तत्स्मरणानुपपत्तिः । अनेन देहेन स्मरणोपपत्तावपि सर्गादौ सद्भावानुपपत्तिरित्वसर्वज्ञत्वानित्यत्वाभ्यां द्वावर्जुनस्य पूर्वपक्षौ ॥ ४ ॥

 श्री०टी०-भगवतो विवस्वन्तं प्रति योगोपदेशासंभवं पश्यन्---अर्जुन उवाच-अपरमिति । अपरमर्वाचीनं तव जन्म, परं प्राक्कालीनं विवस्वतो जन्म । तस्मात्तवाऽऽधुनिकत्वाच्चिरंतनाय विवस्वते त्वमादौ योगं प्रोक्तवानित्येतत्कथमहं विजानीयां ज्ञातुं शक्नु[१]याम् ॥ ४ ॥

 म०टी०-तत्र सर्वज्ञत्वेन प्रथमस्य परिहारम् --

श्रीभगवानुवाच-
 बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ॥
 तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥५॥

 जन्मानि लीलादेहग्रहणानि लोकदृष्ट्यभिप्रायेणाऽऽदित्यस्योदयवन्मे मम बहूनि व्यतीतानि तव चाज्ञानिनः कर्मार्जितानि देहग्रहणानि । तव चेत्युपलक्षणमितरेषामपि जीवाना, जीवैक्याभिप्रायेण वा । हेऽर्जुन श्लेषेणार्जुनवृक्षनाना संबोधयन्नावृतज्ञानत्वं सूचयति । तानि जन्मान्यहं सर्वज्ञः सर्वशक्तिरीश्वरो वेद जानामि सर्वाणि मदीयानि त्वदीयान्यन्यदीयानि च । न त्वमज्ञो जीवस्तिरोभूतज्ञानशक्तिवेत्थ न जानासि स्वीयान्यपि किं पुनः परकीयाणि । हे परंतप परं शत्रु भेददृष्टया परिकल्प्य हन्तुं प्रवृतोऽसीति विपरीतदर्शित्वाद्भ्रान्तोऽसीति सूचयति । तदनेन संबोधनद्वयेनाऽऽवरणविक्षेपौ द्वावप्यज्ञानधर्मौ दर्शितौ ॥ ५ ॥

 श्री. टी-इति पृष्टवन्तमर्जुनं रूपान्तरेणोपदिष्टवानित्यभिप्रायेणोत्तरम्-


  1. ख. ग. घ. रु. छ. ज. श. म. ज्यामिति ॥४॥