पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
[अ० १क्ष्लो०८-९ ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


नुपलक्षयितुं ते तुभ्यं ब्रवीमि न त्वज्ञातं किंचिदपि तव ज्ञापयामीति द्विजोत्तमेति विशेषणेनाऽऽचार्यं स्तुवन्स्वकार्ये तदाभिमुख्यं संपादयति । दौष्ट्यपक्षे द्विजोत्तमेति ब्राह्मणत्वात्तावद्युद्धाकुशलस्त्वं तेन त्वयि विमुखेऽपि भीष्मप्रभृतीनां क्षत्रियप्रवराणां सत्वान्नास्माकं महती क्षतिरित्यर्थः । संज्ञार्थमिति प्रियशिष्याणां पाण्डवानां चमूं दृष्ट्वा हर्षेण व्याकुलमनसस्तव स्वीयवीर विस्मृतिर्मा भूदिति ममेयमुक्तिरिति भावः ॥ ७ ॥

 श्री० टी०-अस्माकमिति । निबोध निबुध्यस्व । नायका नेतारः संज्ञार्थं सम्यग्ज्ञानार्थमित्यर्थः ॥ ७ ॥

म० टी०-तत्र विशिष्टान्गणयति--
 भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ॥
 अश्वत्थामा विकर्णश्च सौमदत्तिर्जय[१]द्रथः ॥ ८॥

 भवान्द्रोणो भीष्मः कर्णः कृपश्च । समितिं सङ्ग्रामं जयतीति समितिंजय इति कृपविशेषणं कर्णादनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्कय तन्निरासार्थम् । एते चत्वारः सर्वतो विशिष्टाः । नायकान्गणयति-अश्वत्थामा द्रोणपुत्रः । भीष्मापेक्ष याऽऽचार्यस्य प्रथमगणनवद्विकर्णाद्यपेक्षया तत्पुत्रस्य प्रथमगणनमाचार्यपारितोषार्थम् । विकर्णः स्वभ्राता कनीयान् । सौमदत्तिः सोमदत्तस्य पुत्रः श्रेष्ठत्वाद्भूरिश्रवाः[२] । जयद्रथः । सिन्धुराजस्तथैव चेति क्वचित्पाठः [३]॥ ८ ॥

 श्री० टी०–तानेवाऽऽह-भवानिति द्वाभ्याम् । भवान्द्रोणः समितिं सङ्ग्रामं जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः ॥ ८ ॥

म० टी०-किमेतावन्त एव नायका नेत्याह--
 अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ॥
 नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥

अन्ये च शल्यकृतवर्मप्रभृतयो मदर्थे मत्प्रयोजनाय जीवितमपि त्यक्तुमध्यवसिता इत्यर्थेन त्यक्तजीविता इत्यनेन स्वस्मिन्ननुरागातिशयस्तेषां कथ्यते । एवं स्वसैन्यबाहुल्यं तस्य स्वस्मिन्भक्तिः शौर्यं युद्धोद्योगो युद्धकौशलं च दर्शितं शूरा इत्यादिविशेषणैः ॥ ९ ॥


 अत्र टिप्पणीरूपेण प्रदर्शिता मूलपाठा: श्रीधरकृतटीकादर्शपुस्तकस्थमूलस्था इति बोध्यम् । ततोऽन्ये मूलपाठास्तु मधुसूदनकृतटीकादर्शपुस्तकस्थमूलस्था इति ध्येयम् । + जयद्रथ इत्यस्य स्थाने तथैव चैति श्रीधरटीकादर्श पुस्तकमूलपाठः ।


  1. क. ख. ग. घ. च. ञ. 'त्तिस्तथैव च ॥ ८ ॥
  2. के. झ. °वाः । नि” ।
  3. क टः सिन्धुराजो जयद्रथः॥ ८ ॥