पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०३ क्ष्लो ०३७]
१२१
श्रीमद्भगवद्गीता।


एव । एतस्मिन्नेव महावैरिणि निवारिते सर्वपुरुषार्थप्राप्तिरित्यर्थः। तन्निवारणोपायज्ञानाय तत्कारणमाह-रजोगुणसमुद्भवः । दुःखप्रवृत्तिबलात्मको रजोगुण एव समुद्भवः कारणं यस्य, अतः कारणानुविधायित्वात्कार्यस्य सोऽपि तथा । यद्यपि तमोगुणोऽपि तस्य कारणं तथाऽपि दुःखे प्रवृत्तौ च रजस एव प्राधान्यात्तस्यैव निर्देशः । एतेन सात्त्विक्या वृत्त्या रजप्ति क्षीणे सोऽपि क्षीयत इत्युक्तम् । अथवा तस्य कथमनर्थमार्ग प्रवर्तकत्वमित्यत आह-रजोगुणस्य प्रवृत्त्यादिलक्षणस्य समुद्भवो यस्मात् । कामो हि विषयाभिलाषात्मकः स्वयमुद्भूतो रजः प्रवर्तयन्पुरुषं दुःखात्मके कर्मणि प्रवर्तयति । तेनायमवश्यं हन्तव्य इत्यभिप्रायः । ननु सामदानभेददण्डाश्चत्वार उपायास्तत्र प्रथमत्रिकस्यासंभवे चतुर्थो दण्डः प्रयोक्तव्यो न तु हठादेवेत्याशङ्कय त्रयाणामसंभवं वक्तुं विशिनष्टि-महाशनो महापाप्मेति । महदशनमस्येति महाशनः ।

" यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं ब्रजेत् " इति स्मृतेः ॥

 अतो न दानेन संधातुं शक्यः । नापि सामभेदाम्यां यतो महापाप्माऽत्युग्रः । तेन हि बलात्प्रेरितोऽनिष्ट फलमपि जानन्पापं करोति । अतो विद्धि जानीहि एनं काममिह संसारे वैरिणम् । तदेतत्सर्वं विवृतं वार्तिककारैः “ आत्मैवेदमग्र आसीत् " इतिश्रुतिव्याख्याने-

" प्रवृत्तौ च निवृत्तौ च यथोक्तस्याधिकारिणः ।
स्वातन्त्र्ये सति संसारसृतौ कस्मात्प्रवर्तते ॥
नतु निःशेषविध्वस्तसंसारानर्थवर्त्मनि ।
निवृत्तिलक्षणे वाच्यं केनायं प्रेर्यतेऽवशः ॥
अनर्थपरिपाकत्वमपि जानन्प्रवर्तते ।
पारतन्त्र्यभृते दृष्टा प्रवृत्तिर्नेदृशी क्वचित् ॥
तस्माच्छ्रेयोर्थिनः पुंसः प्रेरकोऽनिष्टकर्मणि ।
वक्तव्यस्तन्निरासार्थमित्यर्था स्यात्परा श्रुतिः ॥
अनाप्तपुरुषार्थोऽयं निःशेषानर्थसंकुलः ।
इत्यकामयतानातान्पुमर्थान्साधनैर्जडः ॥
जिहासति तथाऽनर्थानविद्वानात्मनि श्रितान् ।
अविद्योद्भूतकामः सन्नथो खल्विति च श्रुतिः ॥
अकामतः क्रियाः काश्चिदृश्यन्ते नेह कस्यचित् ।
यद्यद्भि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ॥